________________
नवमोऽध्यायः । सौरांशेऽथ जलांशे चन्द्रेऽर्कजसंयुतेऽथवा हिबुके । तदृष्टे वा कुर्यात्तमसि प्रसवं न सन्देहः ॥२७॥ होरामनीक्षमाणे शशिनि परोक्षस्थिते पितरि जातः । मेषूरणाच्युते वा चरभे भानौ विदेशगते ॥२८॥ युनिशोरकीसितयोः कुजेन सन्दृष्टयोः पिताप्यभवत् । चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृतः ॥२९॥ पञ्चमनवमधूने पापैरर्कात्तु पापसंदृष्टैः । बद्धः पिताऽन्यदेशे राशिवशात् स्खेऽथवा मार्गे ॥३०॥ जायात्रिकोणसंस्थैः क्रूरैरानन्दवर्जितः प्रसवः । दशमचतुर्थोपगतैः सौम्यैः संपत्तयो विपुलाः ॥३१॥ पश्यति न गुरुः शशिनं लग्नं च दिवाकर सेन्दुम् । पापयुतं वा सार्क चन्द्रं यदि जारजातः स्यात् ॥३२॥ गुरुशशिरवयो नीचे सूतौ लग्नेऽथवार्कसूनुश्च । लग्नोडुपभृगुपुत्राः शुभैरदृष्टास्तथान्यजातश्च ॥ ३३॥ क्लेशो मातुः क्रूरैर्बन्ध्वस्तगतैः शशाङ्कयुक्तैर्वा । चन्द्रात् सप्तमराशौ पापा मरणाय वक्रसन्दृष्टाः॥ ३४ ॥ चन्द्राद्दशमे भानुर्मातुर्मरणं करोति पापयुतः। शुक्रात् पञ्चमनवमे सौरियुतस्तेन वा दृष्टः ॥ ३५॥ चन्द्रात्रिकोणराशौ रविजो मातुर्वधं दिशति रात्रौ । शुक्रात्तथैव दिवसे भौमः पापेन सन्दृष्टः ॥ ३६॥ कुजसौरयोस्त्रिकोणे चन्द्रेऽस्तगते वियुज्यते मात्रा । दृष्टे सुरेन्द्रगुरुणा सुखान्वितो दीर्घजीवी च ॥ ३७॥ म्रियते पापैदृष्टे शशिनि विलग्ने कुजेऽस्तगे त्यक्तः । लग्नात्स्वलाभगतयोर्वसुधासुतमन्दयोरेवम् ॥ ३८ ॥ पश्यति सौम्योबलवान् यादृग्गृह्णाति तादृशो जातः । शुभपापग्रहदृष्टे परैर्गृहीतोऽथवा म्रियते ॥ ३९ ॥ १ जातः स्यात्. २ मरणाय निर्दिष्टाः. ३ भवने. ४ सौरियुतोऽर्कोऽथ ५ गृहीतोऽपि स म्रियते.
Aho! Shrutgyanam