________________
सारावली ।
दिग्भागराशिमण्डलकेन्द्रेषु खगेषु तच्छाला | अर्थ मृगहयबलवत्त्वे गृहं विशालं त्रिशालं च ॥ १४ ॥ चित्रं नवं भृगुसुते च दृढं गुरौ च दग्धं कुजे दिनकरे परिपूर्णकाष्ठम् । चन्द्रे नवं च बहुशिल्पिकृतं बुधे च
जीर्णं भवेद्गृहमिहोष्णकरात्मजे च ॥ १५ ॥ वासगृहे द्यूनगतात् द्वारो दिक्पालकात् बलोपेतात् । भवनग्रहसंयोगैः प्रतिवेश्माश्चिन्तनीयाः स्युः ॥ १६ ॥ देवालयाम्बुपावककोशविहारास्तथोत्रो भूमेः । निद्रागृहं च भास्करशशिकुजगुरुभार्गवाकिंबुवयोगात् ॥ १७ ॥ खट्टास्थितिर्भवनवद्युतविहगसमानि तत्र चिह्नानि । आस्तरणानि च विद्यात् शुभदृष्टिकृतानि दैवज्ञः ॥ १८ ॥ प्राच्यादिगृहद्वितयं भद्वितयं राशयश्च गात्राणि । आजानुशिरः शयनं ग्रहतुल्यं लक्षणं तत्र ॥ १९ ॥ ग्रहयुक्तं वा नियतं विनतत्वं च द्विमूर्तिराशिषु च । षट्त्रिनवान्त्याः पादाः पर्यऽङ्गानि राशयः शेषाः ॥ २० ॥ नीचस्थे भूशयनं चन्द्रेऽप्यथवा सुखे विलग्ने वा । शशिलग्न विवरयुक्तग्रहतुल्याः सूतिका ज्ञेयाः ॥ २१ ॥ अनुदितचक्रार्धयुतैरन्तर्बहिरन्यथा वदन्त्येके । लक्षणरूपविभूषणयोगस्तासां शुभैर्योगात् ॥ २२ ॥ क्रूरैर्विरूपदेहा लक्षणहीनाः सुरौद्रमलिनाच | मिश्रैर्मध्यमरूपा बलसहितैः सर्वमेवमवधार्यम् ॥ २३ ॥ द्वादशभागच्छेन्ने वासगृहेऽवस्थिते सहस्रांशौ । दीपश्चरस्थिरादिषु तथैव वाच्यः प्रसवकाले ॥ २४ ॥ यावलग्नादुदितं वर्तिर्दग्धा तु तावती भवति । दीपः पूर्णे पूर्णः शशिनि क्षीणे क्षयस्तु तैलस्य ॥ २५ ॥ बलवति सूर्ये दृष्टे बहून् प्रदीपान् वदेत् कुपुत्रेण । अन्यैरपि गतवीर्यैः सूतौ ज्योतिस्तृणैर्भवति ॥ २६ ॥
१ झष. २ जीर्ण. ३ उपस्करस्थानम् ४ पर्यन्ते. ५ भागच्छिन्ने. ६ रपगत.
२२
Aho! Shrutgyanam