________________
नवमोऽध्यायः ।
नवमोऽध्यायः ।
आधानं हि मयोक्तं प्रसूतिकालस्य निर्णयार्थपैरम् । तस्मिन् सुपरिज्ञाते जन्माध्यायं प्रवक्ष्यामि ॥ १ ॥ शीर्षोदये विल मूर्ध्ना प्रसवोऽन्यथोदये चरणैः । उभयोदये च हस्तैः शुभदृष्टे शोभनोऽन्यथा कष्टः ॥ २ ॥ भवनांशसदृशदेशे प्रसवो ज्ञेयः सदात्र युवतीनाम् । मिश्रगृहांशे वर्त्मनि स्थिरराश्यंशे तथा स्वगृहे ॥ ३ ॥ स्वगृहनवांशे लग्ने स्वगृहेऽन्यस्मिन्यदि प्रथमहम् । पितृमातृग्रहबलतैस्तत्तत्स्वजन गृहेषु बलयोगात् ॥ ४ ॥ प्राकारतरुनदीषु च सूतिनींचाश्रितैः सौम्यैः । नेक्षन्ते लग्नेन्दू यद्येकस्था ग्रहा महाटव्याम् ॥ ५ ॥ सलिलभवने च चन्द्रो जलराशौ वीक्षते तथा पूर्णः । प्रसवं सलिले विद्यात् बन्धूदयदशमगच यदा ॥ ६ ॥ सौम्यैर्लग्ने पूर्णे स्वगृहगते शशिनि सलिलसंयाते । पातालस्थैश्च शुभैर्जलजे लग्नेऽम्बुगेहगे शशिनि ॥ ७ ॥ वृश्चिककुलीरल सौरे चन्द्रेक्षिते खवटे | भवति प्रसवः स्त्रीणां वदन्ति यवनाः सह मणित्थैः ॥ ८ ॥ रविजे जलजविलग्ने क्रीडोद्याने बुधेक्षिते प्रसवः । रविणा देवागारे तथोपरे चैव चन्द्रेण ॥ ९ ॥ आरण्यभवनलग्ने गिरिवनदुर्गे तथा नवग्ने । रुधिरेक्षिते श्मशाने शिल्पकनिलयेषु सौम्येन ॥ १० ॥ सूर्येक्षिते गोनृपदेववासे शुक्रेन्दुजाभ्यां रमणीयदेशे । शड्यदृष्टे द्विजवह्निहोत्रे नरोदये सम्प्रवदन्ति सूतिम् ॥ ११ ॥ स्वोच्चे दशमे जीवे द्वित्रिचतुर्भूमि के गृहे प्रसवः । मन्दक्षशे साले चतुर्थदशमस्थितैः सौम्यैः ॥ १२ ॥ द्वौ द्वौ राशी मेपात् पूर्वदिषु संस्थितौ गृहविभागे । कोणेषु द्विशरीरा लग्नन्तु भवेद्धि तत्प्रमुखैः ॥ १३ ॥ १ आधाने २ करम्. तथान्यगृहे. ४ स्वगृहेऽन्यस्मिन् प्रतिद्वन्द्वे. ५ वर्गे. ६ चाश्रिते. ७ लग्ने. ८ लग्नस्य ९ प्रमुखे.
Aho! Shrutgyanam
२१