________________
सारावली ।
तात्कालिकदिवसनिशासंज्ञः समुदेति राशिभागो यः । यावानुदयस्तावान् वाच्यो दिवसस्य रात्रेर्वा ॥ ५० ॥ मुनिभागे दिवसनिशोर्जन्मनि लग्नं वदेद्युक्त्या । उदयगणात् प्रसवः स्यादिनपक्षमुहूर्तमाससंज्ञात् ॥ ५१ ॥ इत्याधाने प्रथमं प्रसूतिकालं सुनिश्चितं कृत्वा । जातकविहितं च विधिं विचिन्तयेत्तत्र गणितज्ञः ॥ ५२ ॥ स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने । दृष्टौ कुजसौरिभ्यां जात्यन्धः संभवति तत्र ॥ ५३॥ आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः । नयनविनाशोऽपि यथा तथाधुना संप्रवक्ष्यामि ॥ ५४ ॥ व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः । सूर्यस्तथैव चान्यच्छुभदृष्टौ याप्यतां नयतः ॥ ५५ ॥ क्रूरैर्गृहसन्धिगतैः शशिनि वृषे भौमसौररविदृष्टे । मूकः सौम्यैदृष्टे वाचं कालान्तरे वदति ॥ ५६ ॥ क्रूरेषु राशिसन्धिषु शशी न सौम्यैर्निरीक्ष्यते च जडः । बुधनवमभागसंस्थौ शनिभौमौ यदि सदन्तः स्यात् ।। ५७ ॥ सौम्ये त्रिकोणसंस्थे लग्नाच्छेषग्रहैबलविहीनैः । द्विगुणास्यपादहस्तो योगेऽस्मिन्नाहितो भवति गर्भः ॥ ५८॥ वामनको मकरान्त्ये लग्ने रविचन्द्रसौरिभिदृष्टे । शशिनि विलग्ने कर्किणि कुजाकदृष्टेऽथवा कुब्जः ॥ ५९॥ मीनोदये च दृष्टे कुजार्किशशिभिः पुमान् भवति पङ्गुः । याप्या भवन्ति योगाः सौम्यग्रहवीक्षिताः सर्वे ।। ६०॥ क्रूरग्रहस्त्रिकोणे त्रिकोणलग्ने शुभेषु बलवत्सु । 'द्विशिरोड्रिबाहुयुग्मः शेषैरबलैर्भवति गर्भः ॥६१॥ इत्याधानविधानं प्रसूतिसमयेऽपि योजयेद्योग्यम् । आधाने यन्नोक्तं प्रसूतिविहितं तदपि चिन्त्यम् ।। ६२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां आधानेष्टमोऽध्यायः॥
१ च ततो. २ संदृष्टे. ३ कुजार्कि. ४ तथा. ५ कुजार्कशशिभिः. ६ विशिरो.
Aho ! Shrutgyanam