________________
अष्टमोऽध्यायः । व्ययगेऽर्के शशिनि कृशे पाताले लोहिते सगी स्त्री । म्रियते तस्मिन्नथवा शुक्रे पापद्वयान्तःस्थे ॥ ३७॥ चन्द्रचतुर्थैः क्रूरैर्विलग्नतो वा विपद्यते गर्भः ।। होराछूने क्षितिजे म्रियते गर्भः सह जनन्या ॥ ३८॥ हिबुकगते धरणिसुते रिःफगतेऽर्के क्षपाकरे क्षीणे । गर्भेण सह प्रियते पापग्रहदर्शनं प्राप्ते ॥ ३९ ॥ लग्ने रविसंयुक्त क्षीणेन्दौ वा कुजेऽथवा म्रियते । व्ययधनसंस्थैः पापैस्तथैव सौम्यग्रहादृष्टैः ॥ ४० ॥ जामित्रे रॅवियुक्ते लग्नगते वा कुजे निषिक्तस्य । गर्भस्य भवति मरंणं शस्त्रच्छेदैः सह जनन्या ॥४१॥ बलिभिर्बुधगुरुशुक्रैदृष्टेऽर्केण च विवर्धते गर्भः। मासाधिपवलतुल्यैस्तैस्तैः संयुज्यते भावः ॥ ४२ ॥ मासि तृतीये स्त्रीणां दौहृदकं जायते तथाऽवश्यम् । मासाधिपस्वभावैर्विलग्नयोगादिभिश्चान्यत् ॥४३॥ निषेककाले चरराशिगेझै गर्भप्रसूतिर्दशमे चे मासे । एकादशे च स्थिरराशिसंस्थे स्यावादशे मास्युभयाश्रिते च ॥४४॥ गर्भाधाने चरे राशौ दशमासैः प्रसूयते । स्थिरेणैकादशे मासे उभये द्वादशे भवः ॥ ४५ ॥ गर्भप्रसवविधानं तात्कालिकलग्नवर्गतश्चिन्त्यम् । आधानाजन्मक्षं दशमं वाञ्छन्ति केचिदाचार्याः ॥ ४६॥ आधानोदयशशिनोः सप्तमभं बादरायणो ब्रूते । तस्मान्नैकान्तोऽयं सर्वेषां संमतं वक्ष्ये ॥४७॥ यस्मिन् द्वादशभागे गर्भाधाने स्थितो निशानाथः । तत्तुल्यः प्रसवं गर्भस्य समादिशेत्प्राज्ञः ॥४८॥ लग्ने शनैश्चरांशे शनैश्चरे द्यूनगे यदि निषेकः । वर्षत्रयेण सूतिर्द्वादशभिः स्याच्छशिनि चैवम् ॥ ४९ ॥ १ च शशिनि कृशे. २ सहगर्भा स्त्री. ३ जामित्रगेऽर्कदृष्टे. ४ दौहृदको. ५ दशमेऽथ. ६ सवः. ७ लग्नवचिन्त्यम्. ८ आधानजन्मनक्षं, आधाने जन्मङ्क्ष.
Aho! Shrutgyanam