________________
सारावली ।
द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुते । कन्यांशे द्वे कन्ये पुरुषश्च निषिच्यते गर्भे ॥ २४ ॥ मिथुने धनुरंशगतान् ग्रहान् विलग्नं च पश्यतीन्दुसुतः । मिथुनांशस्थश्च यदा पुरुषत्रितयं तदा गर्भे ॥ २५ ॥ कन्या मीनांशस्थान विहगानुदयं च युवतिभागगतः । पश्यति शिशिरगुतनयः कन्यात्रितयं तदा गर्भे ॥ २६ ॥ दिवसे मातापितरौ शुक्ररवी शशिशनी निशायां च । मातृभगिनीपितृव्यौ विपर्ययात् कीर्तितौ यवनैः ॥ २७ ॥ लग्नाद्विषमर्क्षगतः पितुः पितृव्यस्य खेचरः शस्तः । मातृभेगिनीजनन्योः समगृहगोऽन्ये तथा भेषु ॥ २८ ॥ मासेष्वाधानादिषु गर्भस्य यथा क्रमेण जायन्ते । सप्तसु कलिलाण्डकशाखास्थित्वग्रोमचेतनताः ॥ २९ ॥ मासेऽष्टमे च तृष्णा क्षुधा च नवमे तथोद्वेगः । दशमे त्वर्थं संपूर्णः पक्कमिव फलं पतति गर्भः ॥ ३० ॥ शुकारजीवर विशशिसौरिबुधविलग्नपोडुपादित्याः । मासपतयः स्युरेतैर्गर्भस्य शुभाशुभं चिन्त्यम् ॥ ३१ ॥ उत्पात क्रूरहते तस्मात् स्वस्याधिपे पतति गर्भः । लग्नगृहं वा हेतुयोगेशो गर्भपतनस्य ॥ ३२ ॥ अथवा निषेककाले विलग्नसंस्थौ यदा रुधिरमन्दौ । तहगतेऽथवेन्दौ तदीक्षिते वा पतति गर्भः ॥ ३३॥ हरेन्दुयुतेः सौम्यैस्त्रिकोणजायार्थखाम्बुसंस्थैर्वा । पापैस्त्रिला भयातैः सुखी च गर्भो निरीक्षिते रविणा ॥ ३४ ॥ क्रूरान्तःस्थः सूर्यश्चन्द्रो वा युगपदेव मरणाय । सौम्यैरदृष्टमूर्तिर्युवतीनां गर्भसहितानाम् ॥ ३५ ॥ उदयास्तगतैः पापैः सौम्यैरनवेक्षितैश्च मरणं स्यात् । उदयस्थितेऽर्क वा क्षीणेन्दौ भौमसंदृष्टे ॥ ३६ ॥
×૮
१ गर्भः. २ नृमिथुनधनु. ३ गतान्. ४ गर्भः ५ जननीभगिन्योः. ६ तथाविपूर्ण: ७ यथा.
Aho! Shrutgyanam