________________
अष्टमोऽध्यायः । उपचयगौ रविशुक्रो बलिनौ पुंसः समांशसंप्राप्तौ । युवतेर्वा कुजचन्द्रौ यदा तदा गर्भसंभवो भवति ॥११॥ शुक्रार्कभौमशशिभिः खांशोपचयस्थितैः सुरेड्ये वा । धर्मोदयात्मजस्थे बलवति गर्भस्य संभवो भवति ॥ १२ ॥ मिथुनस्य मनोभावो यादृङ्मदलालसं भवति । श्लेष्मादिभिः स्वदोषैस्तत्तुल्यगुणो निषिक्तः स्यात् ॥ १३ ॥ विषमे विषमांशगता होराशशिजीवभास्करा बलिनः । कुर्वन्ति जन्म पुंसां समासमांशे युवैतिनरजन्म ॥ १४ ॥ ओजः गुरुसूयौँ बलिनौ पुंसः समे सितेन्दुकुजाः । कन्यानां जन्मकरा गर्भाधाने स्थिता बलिनः ॥१५॥ मिथुने चापेऽर्कगुरू बुधदृष्टौ दारकद्वयं कुरुतः । स्त्रीयुग्मं कन्यायां सितशशिभौमा झषे च बुधदृष्टाः ॥ १६ ॥ लग्नं मुक्त्वा विषमे शनैश्वरः पुरुषजन्मदो भवति । योगे विहगस्य बलं संवीक्ष्य वदेन्नरं स्त्रियं वाऽपि ॥ १७ ॥ अन्योन्यं रविचन्द्रौ विषमक्षगतौ निरीक्षते । इन्दुजरविपुत्रौ वा दृष्टौ बलिनौ नपुंसकं कुरुतः ॥ १८ ॥ पश्यति वक्रः समभे सूर्य चन्द्रोदयौ च विषमः । यद्येवं गर्भस्थः क्लीबो मुनिभिः समादिष्टः ॥ १९॥ ओजसमराशिसंस्थौ ज्ञेन्दू षण्ढं कुजेक्षितौ कुरुतः । नरभे विषमनवांशे होरेन्दुबुधाः सितार्किदृष्टा वा ॥ २० ॥ लग्ने समराशिगते चन्द्रे च निरीक्षिते बलयुतेन । गगनसदा वक्तव्यं मिथुनं गर्भस्थितं नित्यम् ॥ २१ ॥ समराशौ शशिसितयोर्विषमे गुरुवक्रसौम्यलग्नेषु । द्विशरीरे वा बलिषु प्रवदेत् स्त्रीपुरुषमत्रैव ॥ २२ ॥ द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुते । मिथुनांशे कन्यैका द्वौ पुरुषो त्रितयमेवं स्यात् ॥ २३॥
१ धर्मेऽथवात्मजे वा. २ समे. ३ तु युवतीनाम्. ४ पुत्र. ५ दये. ६ स्तदा दृष्टः. ७ नूनम्. ८ नियत.
Aho! Shrutgyanam