________________
सारावली । अर्कः कलिङ्गविषये यवनेषु च चन्द्रमाः । शुक्रः समतटे जातः सैन्धवेषु बृहस्पतिः ॥ १४ ॥ मगधेषु बुधो जातः सौराष्ट्रेषु शनैश्चरः । अङ्गारकस्तूजयिन्यां राहुः केतुश्च द्राविडे ॥ १५ ॥ इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्यायः सप्तमः ।
अष्टमोऽध्यायः। राश्यादिफलविभागः कस्य विधेयो विना समुत्पत्तेः। आधानमथो वक्ष्ये कारणभूतं समस्तजन्तूनाम् ॥ १ ॥ अनुपचयराशिसंस्थे कुमुदाकरबान्धवे रुधिरदृष्टे । प्रतिमासं युवतीनां भवतीह रजो ब्रुवन्त्येके ॥२॥ इन्दुर्जलं कुजोऽग्निर्जलमसृगथवाग्निरेव पित्तं स्यात् । एवं रक्ते हीने पित्तेन रजः प्रवर्तते स्त्रीषु ॥३॥ एवं यद्भवति रजो गर्भस्य निमित्तमेव कथितं तत् । उपचयसंस्थे विपुलं प्रतिमासं दर्शनं तस्य ॥४॥ उपचयभवने शशभृदृष्टो गुरुणा सुहृद्भिरथवासौ । पुंसा करोति योगं विशेषतः शुक्रसंदृष्टः ॥ ५ ॥ चन्द्रे कुजेन दृष्टे पुष्पवती सह विटेन संयोगम् । राजपुरुषेण रविणा रविजेनाप्नोति भृत्येन ॥ ६ ॥ एकैकेन फलं स्यादृष्टे नान्यैः कुजादिभिः पापैः । सर्वैः स्वगृहं त्यक्त्वा गच्छति वेश्यापदं युवतिः ॥ ७॥ द्विपदादयो विलग्नात्सुरतं कुर्वन्ति सप्तमे यद्वत् । तद्वत्स्त्रीपुरुषाणां गर्भाधाने समादेश्यम् ॥ ८॥ अस्तेऽशुभयुतदृष्टे सरोषकलहं भवेद्राम्यम् । सौम्यं सौम्यैः सुरतं वात्स्यायनसंप्रयोगिकाख्यातम् ॥ ९॥ तत्र शुभाशुभमित्रैः कर्मभिरधिवासिता विषयवृत्तिः । गर्भावासे निपतति संयोगे शुक्रशोणितयोः ॥ १० ॥ १ समुत्पत्तिम्. २ मतो. ३ क्षुभिते. ४ विहितं. ५ विफलं. ६ दृष्टियुते.
Aho ! Shrutgyanam