________________
सप्तमोऽध्यायः ।
१५ सप्तमोऽध्यायः। रविचन्द्रभौमबुधजीवशुक्रसौरा दिनादिपतयश्च । मासे चाश्वयुजादौ दिनेश्वरोऽब्दे दिनपतेश्च ॥१॥ अब्दाधिपाश्चतुर्थाः क्रमेण षष्ठास्तु कालहोरेशाः । द्विद्वादशहोराः स्युर्दिवसास्त्वेकाधिकास्त्रिंशत् ॥ २ ॥ मासास्त्रिंशद्गुणिता गतैर्दिनैः सप्तभाजिता दिवसाः। अब्दाधिपाः प्रगण्या गतैर्दिनाद्यैः प्रयत्नतस्तु स्युः ॥ ३॥ एकत्रिंशद्भागैर्युक्तश्चैत्रादीनां ग्रहादीनाम् । क्रमशो विज्ञातव्या शुक्लप्रतिपत्प्रसंख्यायाम् ॥ ४ ॥ यस्य ग्रहस्य भावो यस्तस्य गृहे प्रशस्यते कर्म । तस्मिंश्योपचयस्थे तस्मिल्लग्ने गृहे चास्य ॥ ५ ॥ यत्कर्मग्रहदिवसे तदेव होराब्दभासकालेषु । पादविवृद्ध्या वा स्यात्तेषां कालस्य संपाकः ॥ ६॥ व्यालोणकशैलसुवर्णशस्त्रविषदहनभेपजनृपाश्च । म्लेच्छाब्धितारकान्तारकाष्ठमत्रप्रभुः सूर्यः ॥ ७ ॥ अपिकुसुमभोज्यमणिरजतशंखलवणोदकेपु वस्त्राणाम् । भूषणनारीघृततिलतैलकनिद्राप्रभुश्चन्द्रः ॥ ८॥ रक्तोत्पलताम्रसुवर्णरुधिरपारदमनःशिलाद्यानाम् । क्षितिनृपतिपतनमूछोपैत्तिकचोरप्रभुभीमः ॥ ९ ॥ श्रुतिलिखितशिल्पवैद्यकनैपुणमत्रित्वदूतहास्यानाम् । खगयुग्मख्यातिवनस्पतिस्वर्णमयप्रभुः सौम्यः ॥ १० ॥ माङ्गल्यधर्मपौष्टिकमहत्वशिक्षानियोगपुरराष्ट्रम् । यानासनशयनसुवर्णधान्यवेश्मपुत्रपोजीवः ॥११॥ वज्रमणिरत्नभूषणविवाहगन्धेष्टमाल्ययुवतीनाम् । गोमयनिदानविद्यानिधुवनरजतप्रभुः शुक्रः ॥ १२ ॥ त्रपुसीसकाललोहककुधान्यमृतबन्धुमन्दभृतकानाम् । नीचस्त्रीपण्यकदासदीनदीक्षाप्रभुः सौरिः ॥१३॥ १ दिनाब्दपतयस्तु. २ व्यालोत्कर्णकशैल. ३ कविकुसुम.
Aho ! Shrutgyanam