________________
सारावली । ग्रहाणां खोचसंस्थानां युवराजाभिधा भवेत् । शत्रुक्षेत्रगतानां च वृद्धा नाम तथेरिता ॥४८॥ नीचगानां ग्रहाणां च दशा मरणसंज्ञिता । तत्तत्फलसमायुक्ता ग्रहाणां तु दशा भवेत् ॥४९॥ बालैः सुखी सुशीलश्च यौवनैरवनीश्वरः ।। वृद्वैाधिणे वृद्धिर्मरणे मरणं व्ययम् ॥ ५० ॥ पुराशिगैः शुभखगैीराः सङ्ग्रामरक्षिणो बलिनः । निश्चेष्टैः सुकठोराः क्रूरा मूर्खाश्च जायन्ते ॥ ५१ ॥ युवतिभवनस्थितेषु च मृदवः सङ्ग्रामभीरुकाः पुरुषाः । जलकुसुमवस्त्रनिरताः सौम्याः कल्याः स्वजनहृष्टाः ॥५२॥ इति कल्याणवर्मविरचितायां सारावल्यां मिश्रकाध्यायः पञ्चमः ।।
षष्ठोऽध्यायः । वक्षत्रिकोणतुङ्गस्था यदि केन्द्रेषु संस्थिताः । अन्योन्यं कारकास्ते स्युः केन्द्रेष्वेव हरेर्मतम् ॥१॥ रवितनयो जूकस्थः कुलीरलग्ने बृहस्पतिहिमांशू । मेषे कुजो गवि सितः परस्परं कारका एते ॥ २॥ तुङ्गसुहृत्स्वगृहां स्थिता ग्रहाः कारकाः समाख्याताः। मेषूरणे च रविरिति विशेषतो वक्ति चाणक्यः ॥३॥ लग्नस्थाः सुखसंस्था दशमस्थाश्चापि कारकाः सर्वे । एकादशेऽपि केचिद्वाञ्छन्ति न तन्मतं मुनीन्द्राणाम् ॥४॥ नीचकुले संभूतः कारकविहगैः प्रधानतां याति । क्षितिपतिवंशसमुत्थो भवति नरेन्द्रो न सन्देहः ॥ ५ ॥ कारकवेधो बलवान्मूलं योगेषु कीर्तितो हरिणा । तस्मात्फलनिर्देशः कारकवेधादिभिर्वाच्यः ॥ ६ ॥
इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्यायः षष्ठः ॥
१ बाले. २ स्यात्. ३ ने रजनी. ४ वृद्धे. ५ पुंराशिघु ग्रहेन्द्रैः. ६ संग्रामकाङ्क्षिणो बलिभिः । निःस्नेहा. ७ सदा. ८ रवियुतः. ९ भेदादिभिः.
Aho ! Shrutgyanam