________________
पञ्चमोऽध्यायः ।
११ स्त्रीभरणदुःखतप्तः समस्तधननाशकलुषितमनस्कः। . . न जहाति शोकभारं कथमपि खलसंज्ञिते पुरुषः ॥१३ ॥
उच्चराशौ विलोमे च बलं नान्यैरिहेष्यते । कालस्यातिबहुत्वाच्च तस्मात्स्वोच्चेऽतिवक्रिते ॥ १४ ॥ स्मोच्चाश्रिताः श्रेष्ठबला भवन्ति मूलत्रिकोणे स्वगृहे च मध्याः । इष्टक्षिता मित्रगृहाश्रिता वा वीर्य कनीयः समुपोद्वहन्ति ॥ १५ ॥
शुक्लप्रतिपद्देशक मध्यबलः कीर्त्यते यवनवृद्धैः । श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च ॥ १६॥ आहितकलासमूहः प्रसन्ननिजमण्डलः सुपरिपूर्णः। अप्रतिहतमिह कुरुते भूपतिबलमुडुगणाधिपतिः ॥ १७ ॥ चन्द्राध्यासितराशेर्नाथो लग्नाधिपोऽपि वा यस्य । केन्द्रे सुरगुरुमत्री वयसो मध्ये सुखं तस्य ॥ १८॥ राशेस्तदीश्वरस्य च बलेन परिकल्प्यमृक्षभेदफलम् । युगपत्फलोपलब्धेरवधृतिरेकस्य कर्तव्या ॥ १९॥ होराग्रहबलसाम्ये निसर्गजं चिन्तनीयमाचार्यैः । लग्नाधिपतेस्तुल्यं बलमिह चूडामणिर्वदति ॥ २० ॥ उच्चबलं कन्यायां बुधस्य तुङ्गांशकैः सदा चिन्त्यम् । परतस्त्रिकोणजातं पञ्चभिरंशैः स्वराशिजं परतः ॥ २१ ॥ उच्चं भागत्रितयं वृष इन्दोश्च त्रिकोणमपरेंऽशाः। द्वादशभागा मेषे त्रिकोणमपरे स्वभं तु भौमस्य ॥ २२ ॥ दशभागा ईज्यस्य च त्रिकोणमपरे स्वभं चापे । शुक्रस्य तु त्रिकोणं पञ्चभिरपरे स्वभं जूके ॥२३॥ विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य । कुम्भे त्रिकोणनिजभे रविजस्य यथा रवेः सिंहे ॥ २४ ॥ खोचस्थितः शुभफलं प्रकरोति पूर्ण
नीचर्लगस्तु विफलं रिपुमन्दिरेऽल्पम् । १ हरण. २ फलं. ३ हरिष्यते. ४ थवा. ५.सुरमन्त्री वा. ६. पेन तु.:.
Aho ! Shrutgyanam