________________
सारावली |
पादं शुभस्य हितभे स्वगृहे तदर्ध पादत्रयं गगनगः स्थितवांत्रिकोणे ॥ २५ ॥ नीचर्क्षगः सकलमेव करोति पापं न्यूनं च किंचिदरिभे विफलं स्वतु । पादत्रयं हितगृहे विहगोऽशुभस्य
स्वर्क्षे दलं च चरणं स्थितवांत्रिकोणे ॥ २६ ॥ औत्पातिकाः सवितृलुप्तकरा विरूक्षा
नीचं गता रिपुगृहं च नभश्चरेन्द्राः । युद्धे जिताः शुभफलानि विनाशयन्ति
पापानि यानि सुतरां परिवर्धयन्ति ॥ २७ ॥ उच्चबलेन समेतः परां विभूतिं ग्रहः प्रसाधयति । पुंसामथ साचिव्यं त्रिकोणबलवान् बलपतित्वम् ॥ २८ ॥ स्वर्क्षे बलेन सहितः प्रमुदितधनधान्यसंपदाक्रान्तम् । मित्रंबलेन च युक्तो जनयति कीर्त्यान्वितं पुरुषम् ॥ २९ ॥ तेजस्विनमतिसुभगं सुस्थिरविभवं नृपाच लब्धधनम् । निजहोराबलयुक्तो जनयति विक्रान्तमिति चिन्त्यम् ॥ ३० ॥ स्वद्रेक्काण बलेनाहीनो गुणभाजनं ग्रहः कुरुते । स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च ॥ ३१ ॥ सप्तांशकबलसहितः साहसिकं वित्तकीर्त्याढ्यम् । द्विरसांशबलसमेतः कर्मरतपरोपकारकं चैव ॥ ३२ ॥ त्रिंशांशबलेन तथा विकसत्सौख्यं गुणान्वितं कुर्यात् । शुभदर्शनफैलसहितः पुरुषं कुर्याद्धनान्वितं ख्यातम् । सुभगं प्रधानमखिलं सुरूपदेहं सुसौख्यं च ॥ ३३ ॥ पुंखीभवनबलेन च करोति जनपूजितं कलाकुशलम् । पुरुषं प्रसन्नचित्तं कल्यं परलोकभीरुं च ॥ ३४ ॥ स्थानबलेन समेतः स्थितिसौख्यसुहृच्च भागाढ्यः । धीरो निश्चलचित्तः स्वतत्रकर्मा भवेन्मनुजः ॥ ३५ ॥ १ मित्रमबलसंयुको. २ सुखिनं. ३ बल. ४ ममलं.
१२
Aho! Shrutgyanam