________________
सारावली।
पञ्चमोऽध्यायः। राशिप्रभेदसंज्ञः कथितो ग्रहयोनिभित्तिरध्यायः । सर्वव्यापकमधुना कथयिष्ये मिश्रकं नाम ॥१॥ दीप्तः स्वस्थो मुदितः शान्तः शक्तो निपीडितो भीतः। . विकलः खलश्च कथितो नवप्रकारो ग्रहो हरिणा ॥२॥ खोच्चे भवति च दीप्तः स्वस्थः स्वगृहे सुहृद्गृहे मुदितः। . शान्तः शुभवर्गस्थः शक्तः स्फुटकिरणजालश्च ॥३॥ विकलो रविलुप्तकरो ग्रहाभिभूतो निपीडितश्चैवम् । पापगणस्थश्व खलो नीचे भीतः समाख्यातः ॥४॥ दीप्ते विचरति पुरुषः प्रतापविषमाग्निदग्धरिपुर्वर्गः । लक्ष्म्यालिङ्गितदेहो गजमदसंसिक्तभूपृष्ठः ॥ ५॥ खस्थः करोति जन्मनि रत्नानि सुखानि कनकपरिवारान् । नृपतेर्दण्डपतित्वं गृहधान्यकुटुम्बपरिवृद्धिम् ॥६॥ मुदिते विलसति मुदितो विलासिनीकनकरत्नपरिपूर्णः । विजितसकलारिपक्षः समस्तसुखभाङ् नरो भवति ॥ ७॥ शान्ते प्रशान्तचित्तः सुखधनभागी महीपतेः सचिवः । विद्वान्परोपकारी धर्मपरो जायते पुरुषः ॥ ८॥ स्त्रीवस्त्रमाल्यगन्धैर्विलसति पुरुषः सदा विततकीर्तिः । दयितः सर्वजनस्य च शक्ताख्ये भवति विख्यातः ॥९॥ दुःखैर्व्याधिभिररिभिः प्रपीड्यते पीडिताख्ये तु । देशाद्देशं विचरति बन्धुवियोगाभिसंतप्तः ॥ १० ॥ बहुसाधनोऽपि राजा प्रध्वस्तबलः प्रपीडितो रिपुणा । नाशमुपयाति विजितो भीते दैन्यं परं प्राप्तः ॥ ११ ॥ स्वस्थानपरिभ्रष्टः क्लिष्टो मलिनः प्रयाति परदेशम् । विध्वस्तबलो विकले रिपुबलसंचकितचित्तश्च ॥ १२ ॥
१तिपीडितो. २ तः प्रपीडितः. ३ निचयः. ४ जनः ख्यातः. ५ सुभगः. ६ पीडिते सदा पुरुषः, ७ धनो.
Aho ! Shrutgyanam