________________
चतुर्थोध्यायः। रिपुसमसुहृदाख्याः सूतिकाले ग्रहेन्द्रा ___ अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीयाः॥ ३१ ॥ संपश्यन्ति स्थानात्सदा ग्रहाश्वरणवृद्धितः सर्वे । . . त्रिदशत्रिकोणचतुरस्रसप्तमानां फलं क्रमेणैव ॥ ३२ ॥ पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोणमपि जीवः । चतुरस्र भूमिसुतो छूनं च सितार्कशशिबुधाः क्रमशः ॥ ३३॥ दिक्स्थानकालचेष्टाकृतं बलं सर्वनिर्णयविधाने । वक्ष्ये चतुःप्रकारं ग्रहस्तु रिक्तो भवेदबलः ॥ ३४ ॥ लग्ने जीवबुधौ दिवाकरकुजौ व्योनि स्मरे भास्करि
बन्धाविन्दुसितौ दिशाकृतमिदं खोचे स्खकोणे स्वभे । मित्रस्वांशकसंस्थितः शुभफलदृष्टो बलीयान्ग्रहः . स्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे ॥ ३५॥ जीवाप्स्फुजितोऽह्नि विच्च सततं मन्देन्दुभौमा निशि ___ होरामासदिनाब्दपाश्च बलिनः सौम्याः सितेऽन्येऽसिते । सङ्ग्रामे जयिनो विलोमगतयः संपूर्णगावो ग्रहाः
सूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले ॥ ३६॥ उत्तरमयनं प्राप्ताः शुक्रकुजार्केन्द्रमत्रिणो बलिनः । याम्यं शशिरविपुत्रौ द्वयेऽपि शशिजः स्ववर्गस्थः ॥ ३७॥ स्त्रीपुंनपुंसकाख्याः क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ताः।
सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम् ॥ ३८॥ प्राग्रात्रिभागेऽतिबलः शशाङ्कः शुक्रो निशार्धेऽवनिजो निशान्ते । प्रातर्बुधो मध्यदिने च सूर्यः सर्वत्र जीवोऽर्कसुतो दिनान्ते ॥३९॥
कृष्णारबुधगुरुसिताः शशिसूर्यावुत्तरोत्तरं बलिनः । साधारणबलमेतद्वलसाम्ये चिन्तयेत्प्राज्ञः ॥४०॥ .. इति कल्याणवर्मविरचितायां सारावल्यां ग्रहयोनिभेदो
नाम चतुर्थोऽध्यायः।
१ सव्यं संपश्यन्ति. २ पुंस्त्री. ३ स्वाभाविक.
Aho ! Shrutgyanam