________________
एकोनपञ्चाशोऽध्यायः। कामी पराङ्गनाभाक्रूपयशोभाजनो विजिष्णुश्च ॥ २७ ॥ व्यालम्बभुजः श्यामः प्रथितयशोरूपकान्तिशठः । स्मितभाषी मकराये स्त्रीषु जितो वल्गुचेष्टधनयुक्तः ॥२८॥ अल्पवदनश्च मध्ये चलः परस्त्रीधनापहर्ता स्यात् । चतुरः सतां गतिज्ञः प्रदानशीलो दुरन्तपादः स्यात् ॥२९॥ वौचालः कलुषकृशो दीर्घाङ्गः पितृवियुक्तश्च । लभते विदेशगमनाद्व्यसनान्यपि मृगमुखस्यान्ते ॥ ३० ॥ स्त्रीमानयशोभूतिः स्फीतप्रभवो घटस्याये । प्रांशुः कर्मसु निष्ठो धनवान्नृपसेवको जातः ॥ ३१ ॥ लुब्धः समर्थमधुरो गौरः पिङ्गोद्धताक्षहास्यधनः । उद्धृष्टवचा मतिमान्बहुमित्रः स्याद्वितीये तु ॥ ३२ ॥ दीर्घः शठः प्रतापी कृशोऽल्पबाहुः सुतार्थभाक्स्तब्धः । बह्वनृतोऽन्तर्विषमो विदारिताक्षो रतिविदन्ये ॥ ३३॥ मधुपिङ्गाक्षो गौरो मेधावी सत्क्रियारतिज्ञश्च । सुखभागी मीनाये जलचरैयुगले विनीतश्च ॥ ३४ ॥ नायुपचारप्रवरो मृष्टान्नरैतिः परार्धभुक कॉरी । स्त्रीसज्जनातिदयितो वदतां श्रेष्ठो द्वितीये तु ॥ ३५ ॥ श्यामः कलासु निपुणः पृथुपार्दसुहृत्प्रदानश्च । मृष्टान्नपानहास्यो मीनयुगान्त्ये भवेत्पुरुषः ॥ ३६ ॥ इतीरितोऽयं स्वगुणस्वभावो
द्रेक्काणजानां गुणविद्विकल्पैः । द्रेक्काणंगे वीर्यवति स्वदृष्टे
द्रेक्काणकल्पं तु फलं विध्यात् ॥ ३७॥ इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये देकाणाध्यायो
नामैकोनपञ्चाशोऽध्यायः ॥
१ मानी. २ वाचाटः. ३ चारयुतो. ४ रुचिः. ५ कामी. ६ दान. ७ गुणचिहकल्पैः. ८ णमे.
Aho! Shrutgyanam