________________
सारावली |
सुरुचिरकारी दाता स्थिरो वपुष्मान्रणेप्सुः स्यात् । सुखभाक् श्रुतिधर्मरुचिर्विस्तीर्णमतिर्द्वितीये च ॥ १४ ॥ लुब्धः परस्वहरणे कल्यः स्तब्धो महामतिः कितवः । नायततनुमूर्तिः स्यान्नैकापत्यः प्रगल्भोऽन्त्ये ॥ १५॥ श्यामः सुवाग्विनीतः प्रांशुः सुकुमारमूर्तिरबलाद्ये । स्त्रीभ्योऽर्थभागनिष्ठो दीर्घशिरा मधुसमाक्षश्च ॥ १६ ॥ धीरो विदेशभागी शिल्पकथापण्डितः समरशौण्डः | वाचाटः श्रुतवाक्यो वनौकसां संमतो द्वितीये स्यात् ॥ १७॥ गीता परार्धभागी सङ्गीतरतिर्नरेन्द्रदयितः स्यात् । ह्रस्वस्वरूपवेषश्चान्ते पृथुशिरस्कश्च ॥ १८ ॥ कन्दर्परूपनिपुणस्तुलादिभागेऽध्वसेवज्ञः । श्यामकला पण्यरतो नियोगधीरः सुमेधावी ॥ १९॥ पङ्कज विशालनेत्रः सुरूपवाक्साहसः कैलापी स्यात् । ख्यातः स्ववंशवर्धितवृद्धानुचरो द्वितीये च ॥ २० ॥ चपलः शठः कृतघ्नो विरूपजिह्मोपचितमूर्तिः । नष्टसुहृद्रविणयशाः स्वल्पमतिर्भाग के तृतीये स्यात् ॥ २१ ॥ गौरः स्थिरः प्रचण्डो रणोत्कटः स्यान्नरो विशालाक्षः । स्थूलविशालशरीरः कलिप्रियो वृश्चिकाद्यांशे ॥ २२ ॥ मृष्टान्नपानचतुरश्च लेक्षणो हेमगौरमूर्तिः स्यात् । कान्तः परवित्तयुतः शीलकलावाद्वितीयेऽशे ॥ २३ ॥ निःश्मश्रुरोमहिंस्रः पिङ्गाक्षमहोदरः प्रहर्ता च । सहजच्युतस्तृतीये पीवरबाहुः सुधीरहृदयश्च ॥ २४ ॥ परिमण्डलाक्षवको गणेषु मुख्यो धनुर्हगाणाद्ये । स्वोपचितस्वाचारस्तथा मृदुर्भवतिसंजातः ॥ २५ ॥ शास्त्रार्थवित्प्रवक्ता ऋतुशतहर्ता द्वितीये च । मत्रभृतां श्रेष्ठतमस्त्वनेकतीर्थायतनचारी ॥ २६ ॥ बन्धुप्रधान चतुरः सतां गतिर्धर्मभाक् तृतीयेऽपि ।
१ विलापी.
१९४
Aho! Shrutgyanam