________________
चतुर्थोऽध्यायः ।
केन्द्रात्परं पणफरमापोक्किमसंज्ञितं तयोः परतः । बालयुवस्थविरत्वे क्रमेण फलदा ग्रहास्तेषु ॥ ३२ ॥ षदशभवदुश्चिक्यान्युपचयसंज्ञानि कीर्त्यते । खतनुसुखसुतास्ततपश्छिद्रव्ययसंज्ञितानि
चान्यानि ॥ ३३ ॥
सिंहवृषमेषकन्या कार्मुकभृत्तौलिकुम्भधराः । सूर्यादीनामेते त्रिकोणभवनानि कथ्यन्ते ॥ ३४ ॥ सूर्यादीनामुञ्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः । वोच्चगृहकथितभागा यथाक्रमेणैव परमोच्चाः ॥ ३५ ॥ दिग्वह्नयष्टाविंशतितिथिबाणत्रिघनविंशतयः । स्वोच्चात्सप्तमराशिनींचः स्यादंशकात्परमम् ॥ ३६ ॥ ह्रस्वास्तिमिगोजघटा मिथुनधनुः कर्किमृगमुखाश्च समाः । वृश्चिककन्यामृगपतिवणिजो दीर्घाः समाख्याताः ॥ ३७ ॥ एभिर्लग्नाधिगतैः शीर्षप्रभृतीनि वै शरीराणि । सदृशानि विजायन्ते युतगगनचरैश्च तुल्यानि ॥ ३८ ॥ भवनाधिपदिङ्नाम लव इति यवनैः प्रयत्नतः कथितः । तलवगो विनिहन्यादचिरेण महीपतिः शत्रून् ॥ ३९ ॥ लोहितसितशुकहरिताः पाटलपरिधूम्रपाण्डुचित्राश्च । कृष्णकनकाभपिङ्गाः कर्बुरबभ्रुत्वजादिवर्णाः स्युः ॥ ४० ॥ जन्मोदयगृहवर्णा तदधिपतेः पूजिता प्रतिमा । हन्ति हरेरिह शत्रूनिन्द्रध्वजिनीव देवरिपून् ॥ ४१ ॥ इति कल्याणवर्मविरचितायां सारावल्यां होराराशिभेदो नाम तृतीयोऽध्यायः ॥
चतुर्थोऽध्यायः ।
आत्मा रविः शीतकरस्तु चेतः सत्वं धराजः शशिजोऽथ वाणी । ज्ञानं सुखं शुक्रगुरू मदश्च राहुः शनिः कालनरस्य दुःखम् ॥१॥ आत्मादयो गगन गैर्बलिभिर्बलवत्तराः ।
दुर्बलैर्दुर्बलास्ते तु विपरीतं शनेः फैलम् ॥ २॥
१ भवनानि.
२ देवगुर्मदश्च शुक्रः. ३ स्मृतम्.
Aho! Shrutgyanam