________________
- सारावली।
अजादितः क्रूरशुभौ पुमांस्त्री चरः स्थिरो मिश्रतनुश्च दृष्टाः । कुलीरमीनालिगृहान्तसन्धिं वदन्ति गण्डान्तमिति प्रसिद्धम् २० जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता । यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूपः ॥ २१ ॥ ऐन्द्राद्यं परिवर्तस्त्रितयं त्रितयं त्रिभिस्तु मेषाद्यैः । एभिर्दिक्षु निबद्धैर्यात्रादि विकल्पयेत्कार्ये ॥ २२ ॥ नरपशुवृश्विकजलजा यथाक्रमं प्राग्दिगादिगा बलिनः । निशि दिवसे सन्ध्यायां पशवः पुरुषो मृगालिकर्किझषाः॥२३॥
नक्तंबला मिथुनकर्किमृगाजगोश्वा __ युःश्रेष्ठका हरितुलालिघटान्त्यकन्याः । पृष्ठोदयाः समिथुना मिथुनं विहाय
शेषाः शिरोभिरुदयन्त्युभयेन मीनः ॥ २४ ॥ आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रयैर्वापि । शशिसुतजीवाभ्यामपि राशिर्बलवानचेच्छेषैः ॥ २५ ॥ तन्वर्थसहजबान्धवपुत्रारिस्त्रीविनाशपुण्यानि । कर्मायव्ययभावा लग्नाद्या भावतश्चिन्त्याः ॥ २६ ॥ शक्तिधनपौरुषगृहप्रतिभावणकामदेहविवराणि । गुरुमानभवव्ययमिति कथितान्यपराणि नामानि ॥ २७ ॥ संज्ञा वेश्माष्टमयोश्चतुरस्रं वै तपश्च नवमस्य । होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम् ॥ २८॥ नामानि चतुर्थस्य तु सुखजलपातालबन्धुहिबुकानि । कर्माज्ञामेषूरणगगनाख्यं कीर्त्यते दशमम् ॥ २९ ॥ धर्मसुतयोस्त्रिकोणं सुतस्य धीस्त्रित्रिकोणमिति तपसः । द्यूनं जायास्तमयं जामित्रं सप्तमस्याख्याः ॥ ३० ॥ षट्कोणं रिपुभवनं तृतीयमथ कीर्तयन्ति दुश्चिक्यम् । रिफं द्वादशभवनं द्वितीयसंज्ञं कुटुम्बं च ॥ ३१ ॥
१ कार्यम्. २ कल्पखविक्रम. ३ मथ. ४ कुटुम्बसंज्ञं द्वितीयमथ परतः.
Aho! Shrutgyanam