________________
सप्तचत्वारिंशोऽध्यायः ।
१८९ उपचितहीनद्रविणः सुखंहदेहानुसारी स्यात् ॥ २६ ॥ कैफवातिककलिरुचिको दीर्घमुखशरीरधर्ममतिवेत्ता । बहुदुःखभाक्सुमेधाः परावमर्दी सुचारुकृष्णाक्षः ॥ २७ ॥ अतिथिद्विजदेवरतिः तुक्रियावान्गुरुषु भक्तः । पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्ल: ।। २८॥ भ्रातृप्रियोऽर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च । कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः ॥ २९ ॥ वृश्चिकलग्ने पुरुषः पीनपृथुव्यायताङ्गतीक्ष्णश्च । अन्तर्विषमः शूरो मातुरभीष्टो रतोद्यतस्त्यागी ॥३०॥ गम्भीरपिङ्गलोद्धतहक्सुमहाहनिमनजठरश्च । अन्तर्विलग्नघोणः साहसनिरतः स्थिरश्चण्डः ॥ ३१ ॥ विश्वासहासवश्यः पित्तरुगातः कुटुम्बसम्पन्नः । गुरुसुहृदां द्रोहरतः पैराङ्गनाकर्षणानुरतः ॥ ३२ ॥ बन्धोल्बणवक्रः स्याद्भूपतिसेवी सशत्रुपक्षः स्यात् । प्रयतोऽर्थदः सुयुवतिधर्म प्रति वत्सलः क्षुद्रः ॥ ३३ ॥ कार्मुकलग्ने जातः स्थूलरदस्तुङ्गपृथुलमूर्धा च । प्रणतानां प्रियकारी धृतिसत्वसमन्वितः सुनयः ॥ ३४ ॥ मलिनासिकोष्ठकुनखी ह्रीमानतिपीवरोरुजठरश्च । विज्ञानशास्त्रकुशलः प्रत्यग्रमतिः प्रकोपश्च ॥ ३५ ॥ बलिनाममर्षणपरः कुलमुख्यो नाशितारिपक्षश्च । संग्रामपदश्रेष्ठश्छलबहुलच्छिद्रवन्धुगुणः ॥ ३६॥ शिल्पादिकर्मनिरतः स्वकर्मवाग्बन्धुवर्गशुभदश्च । कान्तो वदनाजिपदो नृपाद्धृतार्थः सुधर्मरतः ॥ ३७ ॥ मृगवदने लग्नस्थे कृशगात्रो भीरुरेणवक्रश्च । वातव्याधिभिरातः प्रदीप्ततुङ्गोग्रनासः स्यात् ॥ ३८॥ लघुसत्वोऽमिततनयो रोमचितः पाणिपादविस्तीर्णः ।
१ सुखदेहा. २ कारी. ३ कक्षाधिकः खलरुचिः. ४ तनुः. ५ दाता. ६ तनुा . ७ रणोद्य. ८ वरा. ९ वान्बन्धु. १० वदनाक्षिगदो.
Aho ! Shrutgyanam