________________
१८८
.. सारावली।
चण्डाकारो वश्यो दारुणरिपुपक्षसंहरणशीलः। भूरत्नकाञ्चनोर्मिकजलार्थभागी भवेत्पुरुषः ॥ १३ ॥ कर्किणि लग्ने भीरु कनिवासश्चलप्रज्ञः। मेधान्वितोऽतिधुर्यो गुह्यरुगातॊ निहन्ति रिपून् ॥ १४ ॥ अन्तर्विषमः कामी द्विजदेवात्यर्चनप्रदानरतः । धर्मरतः कफबहुलो युवतितर्नुसंस्थितो गुणैर्नियतम् ॥१५॥ कन्यानुजो न बन्धुदृष्टाल्पसुतो विगर्हितकुटुम्बः । बहुमतकुत्सितयुवतिः परार्थभागी दृढग्राही ॥ १६ ॥ परदेशगः सुधीरः साहसकर्मा जलाधिगतवित्तः । स्त्रीभूषणाम्बरसुखैोगैश्च समन्वितो भवति ॥ १७ ॥ सिंहोदये प्रसूतो मांसरुचिर्नृपतिलब्धमानधनः । धर्माच्युतोऽप्यसंस्थः कुटुम्बकार्येषु रतवामः ॥ १८ ॥ सिंहस्य समानमुखः स्थितिमान्गाम्भीर्यसत्वसंयुक्तः। धृष्टोऽल्पवचा लुब्धः परघातकरो बुभुक्षावान् ॥ १९॥ पर्वतवनानुसारी सुरोषणो दृढसुहृत्प्रमादी च । दुष्प्रसहो हतशत्रुः ख्यातसुतः प्रणतसाधुजनः ॥ २० ॥ कृष्यादिकर्मधनवान्व्यापाररतो बहुव्ययो भवति । वेश्या नटी नियमनाद्भार्यातश्चातिदन्तरोगाच ॥ २१ ॥ षष्ठे साधुत्वयुतः शिक्षागान्धर्वकाव्यशिल्पपटुः । प्रियवल्गुकथाभापी प्रणयी दानोपचाररतः ॥ २२ ॥ कन्याविलाससत्वस्थितिर्दयावान्परस्खभोक्ता च । भोक्ता देशभ्रमणः स्त्रीप्रकृतिर्विनयवाक् कितवः ॥ २३॥ भूमण्डलवर्धनभाक सुभगः कामी यशोच्छ्रयं लभते । ऋजुधर्मवान्सुरूपः सुरुचिः कान्तो गुरूणां च ॥ २४ ॥ पापैरहार्यवृत्तैः सहजैश्च समं विरुद्धश्च । कन्याप्रजोऽनिलकफो नीचारिविवर्जितकथश्च ॥ २५ ॥ सप्तमलग्ने जातो विषमाङ्गः शीलवर्जितश्चपलः ।
१ नेप्सित. २ तनुः संस्तुतो गणैर्नियतम्. ३ ह्यसंस्थ.
Aho! Shrutgyanam