________________
सप्तचत्वारिंशोऽध्यायः।
१८७ सप्तचत्वारिंशोऽध्यायः। जन्मविधावज्ञाते प्रश्नोत्थविकल्पतो भवेत्प्रष्टुः । जन्मसमये नराणामतः प्रयत्नेन संचिन्त्यम् ॥१॥ दशविधचिह्नात्वा जातं पुरुषं प्रसाधयेल्लग्नम् । अत एव प्रथमतरं तानि समस्तान्यहं वक्ष्ये ॥ २ ॥ मेषविलग्ने जातः प्रचण्डरोषो विदेशगमनरतः । लुब्धः कृशोऽल्पसौख्यः सेयॆः स्खलिताभिधायी च ॥३॥ पित्तानिलोष्ठरोगैरभितप्ततनुः क्रियापटुर्भीरुः । मेषः धर्मपरश्चलोऽल्पमेधाः परार्थनाशकरः ॥ ४॥ भोक्ता ख्यातः कुनखो भ्रातृविहीनस्तथा पितृत्यक्तः । शीघ्रगतिर्मन्दसुतो विविधार्थयुतः सुशीलश्च ॥ ५॥ कुकुलोद्भतां सुशीलां स्वजनेऽपि च निघृणां स्त्रियं लभते । अपकृष्टोदयसौख्यः कुधर्मसंवर्धितार्थश्च ॥ ६॥ वृषभविलग्ने शूरः क्लेशसहिष्णुः सुखी रिपुनिहन्ता । बाल्ये संचययुक्तः पृथुपीनललाटघोणगण्डोष्ठः ॥ ७॥ उद्युक्तकर्मसुभगः पितुर्जनन्याः सुशर्मकृद्दाता । विविधव्ययोऽतिरौद्रः कफानिलात्मा पिता कुमारीणाम्॥८॥ स्वजनावमर्दनपरो धर्मनिवृत्तोऽबलाप्रियश्चपलः । भोजनपाननिगृनुर्नानाम्बरभूषणैकमतिः ॥९॥ मिथुनविलग्ने जातः प्रियदारो भूषणप्रदानरतिः । पूंज्यवचः सुवचस्वी द्विमातृको रिपुविनीतः स्यात् ॥१०॥ गान्धर्वशिल्पकुशलः श्रुतिशास्त्रार्थप्रहाँस्यकाव्यमतिः। सौम्योऽथ मण्डनरुचिर्मदवश्यः स्यात्सतां सत्यः ॥ ११ ॥ असहिष्णुरनिष्टसुतः शठोऽल्पबन्धुश्च संस्थितो भवति । हीनाधिकाङ्गपादो विनीतवृत्ताक्षिपक्ष्मा च ॥ १२ ॥
१ नोऽथ. २ समयो. ३ संचिन्त्यः. ४ विधि. ५ पित्तानिलोष्ण. ६ रतः. ७ विशीलां. ८ व्यङ्गा वजनेऽघृणां. ९ नियुक्तो. १० पूज्यतमः, ११ भास्य.
Aho! Shrutgyanam