________________
१८६
सारावली आये वणिकत्रिभागे युवर्तिचतुष्पान्निपातदोषेण । मध्ये तु जठररोगैरन्ये व्यालाम्बुजातेभ्यः ॥३५॥ आद्येऽलिनस्त्रिभागे विषशस्त्रस्त्रीकृतान्नपानभवः । मध्ये तु वस्त्रभारस्रंसनरोगैर्भवति मृत्युः ॥ ३६ ॥ अन्ये तृतीयभागे लोप्टकपाषाणनितवेदनया । भवति हि मरणं ह्यथवा नृणां जङ्घास्तिभङ्गकृतम् ॥ ३७॥ चापस्याये व्यंशे गुदानिलसमुद्भवैर्विविधरोगैः । मध्ये विषगुरुदोषैरनिलकृतैर्वा भवेन्मृत्युः ॥ ३८ ॥ अन्त्ये तृतीयभागे जलमध्ये तत्समुत्थितैर्वाऽपि । मृत्युर्तृणां दृष्टो जठरामयदोषसंभूतः ॥ ३९ ॥ मकराये द्रेक्काणे नृपहिंसाव्याघ्रकारणान्मृत्युः । ऊरुविनाशादथवा जलचरसत्वाद्विषैकशफसीत् ॥४०॥ दहनास्त्रतस्करेभ्यो ज्वरादमानुषविभेदनान्मध्ये । अन्त्ये मकरन्यंशे स्त्रीणां मृत्युः सदा दृष्टः ॥४१॥ कुम्भे प्रथमत्र्यंशे स्त्रीभ्यस्तोयैस्तथा जठररोगैः । ज्ञेयो मृत्युर्नृणां पर्वतगहनद्विपादेर्वा ॥४२॥ मध्ये स्त्रीकृतदुःखैर्गुह्यजरोगैर्भवति मृत्युः । अन्त्ये मिथुनचतुष्पदमुखरोगकृतैर्भवेत्युंसाम् ॥४३॥ अंशे मीनयुगाद्ये गुल्मग्रहणीप्रमेहयुवतीभ्यः । जङ्घार्जलजै रोगैर्गजग्रहकृतैः समादिशेन्मृत्युम् ॥ ४४ ॥ नौभेदाजलमध्ये झषे गाणद्वितीयजातानाम् । अन्त्ये भवति हि मरणं कुत्सितरोगैर्न सन्देहः ॥ ४५ ॥ इति कल्याणवर्मविरचितायां सारावल्यां निर्याणफलं नाम
षट्चत्वारिंशोऽध्यायः॥
१ चतुष्पदनिपान. २ रसा. ३ घातेन ४ जठरज.
Aho! Shrutgyanam