________________
षट्चत्वारिंशोऽध्यायः ।
२८५ उदयाद्वाविंशतिमद्रेक्काणो भवति कारणं मृत्योः । तस्याधिपतिभवो वा निर्याणं सूचयेत्स्वगुणैः ॥ २२ ॥ मेषाद्ये द्रेक्काणे क्रूरग्रहवीक्षिते च संयुक्ते । अम्ब्वहिविपपित्तकृतं मरणं नृणां समादेश्यम् ॥ २३ ॥ विद्याद्वितीयभागे मरणं जलकृमिहिमारण्यैः । एवं तृतीयभागे तटाककूपप्रपाताद्वा ॥ २४ ॥ करभाश्वखरोष्ट्रेभ्यो मृत्युइँयो वृषस्याये । पित्ताग्निवातचोराद्वितीयभागे वृषस्यैव ॥ २५॥ विद्यात्तृतीयभागे यानासनवाजिपातकृतम् । पुंसां भवति हि मरणं रणशिरसि महास्त्रकृतमेव ॥ २६ ॥ आये मिथुनत्र्यंशे कासश्वासोद्भवो भवति । मृत्युभहिषविषाद्याद्वितीयभागे च संनिपाताद्वा ॥ २७ ॥ वनवासिचतुश्चरणात्पर्वतनांगाद्गणात्तारण्यात् । भवति हि मृत्युः पुंसामन्ते भागे तु जुतुमस्य ॥ २८ ॥ ग्राहण मद्यपानात्कण्टकदोषेण वा तथा स्वप्नात् । भवति हि कर्कटकाये मृत्युर्नृणां तृतीयभागे तु ॥ २९ ॥ अभिघाताद्विषपानान्मध्ये त्र्यंशे भयं समादिष्टम् । विहंगप्रमेहगुल्मासृक्तन्द्रीदोषेण च तथान्त्ये ॥ ३० ॥ सलिलविषपादरोगात्सिंहाये त्र्यंशके भवेत्पुंसाम् । मध्ये तृतीयभागे जलामयकृतो वनोद्देशे ॥ ३१ ॥ विषशस्त्रयोगदोषैरभिशापाद्वा तथा च पाताद्वा । अन्त्ये सिंहव्यंशे भवति हि मृत्युन सन्देहः ॥ ३२ ॥ आये कन्याच्यंशे मस्तकरोगात्तथानिलान्मृत्युः। व्यालगिरिदुर्गवेनजो मध्ये भूपात्मजादथवा ॥ ३३ ॥ करभखरशस्त्रतोयादतिखातात्स्त्रीकृतान्नपानाद्वा । अन्त्ये कन्याच्यंशे नृणां मृत्युः सदा दृष्टः ॥३४॥
१ अधिपोद्भवो. २ मृत्युर्विषवृकमहिषा. ३ पतनाद्गजा. ४ रण्यैः. ५ मन्त्ये. ६ अभिशापा. ७ प्लीह. ८ ल्मस्रसनदोषेण च तथान्त्ये. ९ श्वसन. १० न्मृत्युः. ११ ऽनलात्. १२ वनदुर्गवक्षो.
Aho ! Shrutgyanam