________________
सारावली । हिबुकेऽर्के वियति कुजे क्षीणेन्दुयुतेऽर्कजेन संदृष्टे । काष्ठेनाभिहतः सन्मियते जातो न सन्देहः ॥ १० ॥
क्षीणेन्दुभौमरविचन्द्रजसूर्यपुत्रैः _ छिद्रास्पदोदयसुखैलगुडाहतस्य । मृत्युर्वियन्नवमलग्नसुतस्थितैस्तै
धूमाग्निबन्धनशरीरनिकुट्टनैः स्यात् ॥ ११ ॥ हिबुकास्तकर्मसहितैः कुजभानुशनैश्चरैर्भवति मृत्युः । आयुधहुतभुग्भूपतिकोपप्रभवः सदा पुंसाम् ॥ १२ ॥ कर्माम्बुवित्तसंस्थैः कुजेन्दुमन्दैः क्षतः क्रिमिकृतोऽन्तः । खस्थेऽन्दुकुजे वा सुराप्रपानप्रतापकृतः ॥१३॥ सप्तमभवने भौमे क्षीणेन्दुदिवाकरार्किमिर्लग्ने । मरणं जातस्य वदेद्यत्रोत्पीडनभवमवश्यम् ॥ १४॥ तुलायां रुधिरे याते कुजः भास्करे स्थिते । चन्द्रे मन्दगृहं प्राप्ते विण्मध्ये मरणं भवेत् ॥१५॥ गलितेन्दुभूपुत्रैर्गतैयॊमाष्टबन्धुषु । विण्मध्ये तु भवेन्मृत्युः सिद्धसेनः प्रभाषते ॥१६॥ बलिना कुजेन दृष्ट क्षीणेन्दौ रन्ध्रगेऽर्कजे मृत्युः। गुल्ममहावेदनया क्रिमिदाहायुधकृतो भवति ॥ १७ ॥ रवौ सरुधिरे छूने निधने रविसंभवे । रसातलस्थे हिमगौ मृत्युः पक्षिकृतो भवेत् ॥ १८॥ लग्नच्छिंद्रत्रिकोणेषु रव्यारार्किनिशाकरैः । मृत्युः स्याच्छैलपातेन शस्त्रकुड्यादिपाशजः ॥ १९ ॥ उदयनवांशाधिपतेः समानभूमौ वदन्ति यवनेन्द्राः । ग्रहयोगेक्षणकाद्यैः परिकल्प्यं चान्यदपि तज्ज्ञैः॥ २० ॥ उदितांशसमो मोहः शेषेण निरीक्षिते द्विगुणितः स्यात् । त्रिगुणः शुभैश्च दृष्टे समस्तमुनयो व्यवस्यन्ति ॥२१॥
१ सायुध. २ प्रपात. ३ व्योमाष्टनवबन्धुषु, व्योमास्तबन्धुषु. ४ मित्र. ५ वक्र. ६ स्वेशेन.
Aho! Shrutgyanam