________________
१९०
सारावली ।
आचारगुणैहींनस्तृषार्तरामाभिराममतिः ॥ ३९ ॥ गिरिवनचारी शूरः शास्त्रश्रुतिशिल्पगेयवाद्यज्ञः । क्षुद्रबलः सकुटुम्बो द्विष्टो दुष्टश्च बन्धुशठः ॥ ४० ॥ कुत्सितशीलः कान्तः कुत्सितदारोऽनसूयको धनवान् । धर्मरतो नृपसेवी न चातिदाता सुखी सुभगः ॥ ४१ ॥ कुम्भविलग्ने पुरुषः सुनीचकर्मा कुलाधिको मूर्खः । स्फुटिताग्रनसो नीचः सक्रोधपरोऽलसात्मा च ॥ ४२ ॥ वैरप्रियोऽप्रहृष्टः पारुष्यद्यूतनीचदासीष्टः । उपहृतबन्धुः क्षुब्धः क्षयोदयी प्राप्तवित्तश्च ॥ ४३ ॥ पिशुनः शठो दरिद्रो विनष्टबन्धुर्बहिष्कृतो लोके । नो संमतः परेषां प्रकृष्टसम्पद्गुरुरतिश्च ॥ ४४ ॥ कुम्भोदयो न शस्तो लग्नविधौ सर्वथैव सत्यमते । यवनैर्वर्गोऽपि तथा चाणक्यो वदति नो वर्गम् ॥ ४५ ॥ मीनविलग्ने जातो धन्यः स्फुटनासिकोऽस्फुटाक्षश्च । विज्ञानकाव्यबुद्धिमनादरलब्धकीर्तिश्च ॥ ४६॥ विवृतोष्ठरदः कुष्ठी विदारितास्यो वृषादिसंलुब्धः । दाक्षिण्यप्रत्ययवान् मेषच्छागादिसम्पन्नः ॥ ४७ ॥ शौचाचारश्रुतिवाग्धृतिमान् कन्याप्रजो विनीतश्च । सौम्यमतिः सत्वयुतो गान्धर्वस्त्रीरतिज्ञश्च ॥ ४८ ॥ बहुशीलोदारमतिर्भ्रातृधनोऽमर्पणः सुबन्धुश्च । बलवति राशावेतत्तदधिपतौ वा बलं सर्वम् ॥ ४९ ॥ इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये लग्नगुणो नाम सप्तचत्वारिंशोऽध्यायः ॥
अष्टचत्वारिंशोऽध्यायः ।
रिक्तोत्कट क्रूरो धनपः शुक्लाधिकोग्रदाररतः । पीनोन्नतः प्रचण्डस्तस्करनाथः क्रियादिहोरायाम् ॥ १ ॥
२ वक्षे.
१ श्रुत.
Aho! Shrutgyanam