SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पञ्चचत्वारिंशोऽध्यायः । शौके प्रकीर्णकामाच बौधे गुणवती भवेत् ॥ ७ ॥ जैवे सती शनौ क्लीबा दुष्टा कौजे सितर्क्षगे । शौके ख्यातगुणा बौधे कलासु निपुणा मता ॥ ८ ॥ जैवे गुणान्विता मन्दे पुनर्भूश्चन्द्रभे ततः । स्वच्छन्दा कथिता कौजे शौक्ले च कुलपांसना ॥ ९ ॥ बौधे शिल्पान्विता नारी जैवे बहुगुणा स्मृता । पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १० ॥ बौधे पुंश्चेष्टिता जैवे राज्ञी मन्दे कुलच्युता । कौजे बहुगुणार्य शौक्रे वाग्व्यसनी तथा ॥ ११ ॥ वौधे विज्ञानसंयुक्ता जैवे नैकगुणा स्मृता । मन्दे चात्परतिः प्रोक्ता दासी कौजे तथार्किभे ॥ १२ ॥ सुप्रज्ञा च भवेच्छौ बुधे दुःस्था खला तथा । जैत्रे पतिव्रता नित्यं मन्दे नीचानुसेविनी ॥ १३ ॥ शुक्रासितौ यदि परस्परभागसंस्थौ शौक्रे च दृष्टिपथगावुदये घटांशे । स्त्रीणामतीव मदनग्निमदः प्रवृद्धः १८१ स्त्रीभिः शमं च पुरुषाकृतिभिर्लभन्ते ॥ १४ ॥ शून्येऽस्ते कापुरुषो बलहीनः सौम्यदर्शनविहीने | चरमे प्रवासशीलो भर्ता क्लीवो ज्ञमन्दयोश्च भवेत् ॥ १५ ॥ उत्सृष्टा सूर्येऽस्ते कुजे च विधवा नवोदैव । कन्यैवाशुभदृष्टे शनैश्चरे वृद्धतां याति ॥ १६ ॥ अशुभ क्षीणेऽस्तगते त्यक्ता पत्या भवेदशुभदृष्टे । क्रूरैर्विधवास्तगतैर्भवति पुनर्भूस्तथा मिश्रः ॥ १७ ॥ अन्योन्यभागगतयोः सितकुजयोरन्यपुरुषसक्ता स्यात् । द्यूने शिशिरर्करे च स्याद्युवतिरनुज्ञया भर्तुः ॥ १८ ॥ सौरारगृहे तद्वच्छशिनि सशुक्रे विलग्नगे जाता । मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥ १९ ॥ १ चाप्यसती. २ वह्निगदः ३ वृद्धिः ४ समं. ५ र्यभेत. ६ करे वा. १६ सारा० Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy