________________
१८०
सारावली । भिक्षुस्त्यक्ताशितभुग्भवति पुमान्विगतसर्वस्वः । नीचैः सप्तभिरखिलैर्दिक् चिरविधृताम्बरः सूतः ॥४१॥ द्वावरिभवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम् । अतिपरिभूतानामपि नृणां जन्मप्रदौ कथितौ ॥४२॥ विविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननष्टवित्तानाम् । चत्वार इष्टयोषित्पुत्रार्थविनाशजांधितप्तानाम् ॥४३॥ पञ्चारिगृहे विहगा इष्टव्यसनाभिघाततप्तानाम् । षड्रोगाङ्कितवपुषां दुःखवतां चैव जन्मकराः ॥४४॥ सप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम् । शय्याच्छादनभोज वञ्चितकानां भवन्ति सदा ॥४५॥ इति कल्याणवर्मविरचितायां सारावल्यां उच्चादिचिन्तनं नाम
चतुश्चत्वारिंशोऽध्यायः॥
पञ्चचत्वारिंशोऽध्यायः । स्त्रीणां जन्मफलं तुल्यं पुंभिः सार्धं यदुच्यते । विशेषस्तत्र यो दृष्टः कथ्यते विस्तरेण सः ॥१॥ वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नतः ।। सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा ॥ २ ॥ प्रकृतिस्था लग्नेन्द्वोः समभे सच्छीलरूपाढ्या। भूषणगुणैरुपेता शुभवीक्षितयोश्च युवतिः स्यात् ॥३॥ पुरुषाकृतिशीलयुता दुःशीला दुःखिता विषमराशौ । क्रूरैर्वीक्षितयुतयोः पापाः स्त्री स्याद्गुणैीना ॥ ४ ॥ लग्नेन्द्वोर्यो बलवांस्त्रिंशांशेऽधिष्ठितैः फलं क्रमशः । भूसुतभार्गवबोधनसुरगुरुमार्तण्डदेहभवैः ॥ ५ ॥ कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् । कुचरित्रा तथा शौके समाया बोधनेऽबला ॥६॥
जैवे साध्व्यर्कजे दासी ज्ञः कौजे तु कापटी । १ रोग. २ गपीडितानां. ३ अल्पा. ४ वाञ्छि. ५ भाक.
Aho ! Shrutgyanam