________________
सारावली।
छूने तु कुजनवांशे शशिना दृष्टे सरोगयोनिः स्त्री। समृगुभागे चारुश्रोणी पतिवल्लभा भवति ॥ २०॥ द्यूने वृद्धो मूर्खः सौरगृहे स्यान्नवांशके वाऽथ । स्त्रीलोलः क्रोधपरः कुजभेऽथ नवांशके भर्ती ॥ २१ ॥ शुक्रगृहेऽथ नवांशेऽतिरूपसौभाग्यसंयुतो भर्ता । नैपुणविज्ञानयुतस्तथैव बौधेऽथवा नवांशे वा ॥ २२ ॥ मदनातॊ मृदुचित्तः शशिभे ऽथनवांशके भर्ता । गुरुसितभागेऽप्यथवा गुणवान्विजितेन्द्रियो भवति ॥२३॥ अतिकर्मकृदतितीक्षणो रविभेऽप्यथवांशके भवति भर्ता । सहमभवनोपतर्नित्यं स्त्रीणां समवधार्यम् ॥ २४ ॥ हर्यान्विता सुखपरा लग्ने सितचन्द्रयोर्बुधेन्द्रोश्च । सुखिता कलासु कुशला गुणशतसहिता विनीता स्यात् ॥२५॥ शुक्रबुधयोर्विलग्ने रुचिरा सुभगा कलासु निपुणा च । दास्यम्बरसौख्ययुता शुभेषु पापेषु विपरीता ॥ २६ ॥ पापेऽहमे तु विधवा निधनाधिपतिनवांशके यस्य । तस्य दशायां मरणं वाच्यं तस्याः शुभैर्द्वितीयस्थैः ॥ २७ ॥ कन्यालिवृषभसिंहे शिशिरमयूखेऽल्पपुत्रां स्यात् ।
भवने शुभयुते निरीक्षिते वा तथैव ग्यात् ॥ २८ ॥ रिक्त बुझेन्दुभृगुजै रविजे च मध्ये
शवलेन सहितैर्विषमक्षलग्ने । जाता भवेत्पुरुपिणी युवती सदैव
पुंश्चेष्टिता विचरति प्रथिता च लोके ॥ २९ ॥ क्रूर जामित्रगते नवमे यदि खेचरो भवति नूनम् । आप्नोति प्रव्रज्यां पापग्रहसम्भवामबला ॥३०॥ बलिभिर्बुधगुरुशुक्रः शशाङ्कसहितैर्विलग्नगैः समभे ।
स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रार्थकुशला च ॥ ३१ ॥ १ धार्यः. २ पुत्रता तस्याः. ३ रिक्तैर्बु. ४ प्रव्रज्यामाप्नोति नवमे ग्रहसंभवे नैव.
Aho ! Shrutgyanam