________________
१६८
सारावली । ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च ॥ २६ ॥ भृत्यार्थचोरचक्षुःशस्त्राग्युदकक्षितीश्वराद्वाधाः । सुतपत्नीबन्धुजनैर्निपीडितः स्याच पापरतिः ॥ २७ ॥ क्षुत्तृष्णार्तिः शोको हृत्पीडा पैत्तिकास्तथा रोगाः । गावच्छेदो भवति हि सूर्यदशायामनिष्टायाम् ॥ २८ ॥ चन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात् । जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा ॥ २९ ॥ द्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च । अर्थविनाशमकस्माद्भपसदो (?) द्वेष्यतां लभते ॥ ३० ॥ तैष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च । मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम् ॥ ३१ ॥ कुरुते भयं कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम् । निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा ॥ ३२ ॥ भौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमर्दैः । व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम् ॥ ३३ ॥ क्षित्याजाविकतांत्रिकस्वर्णावश्यादिभिस्तथा द्यूतैः ।।
आसवकषायकटुकै रसैश्च धनधान्यभाग्भवति ॥ ३४ ॥ मित्रकलनविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च । मूर्छा शोणितदोषः शाखाच्छेदो व्रणश्चापि ॥ ३५॥ परदाररतिद्वेष्यो गुरुसत्यानामधर्मनिरतश्च । पित्तकृतैरपि दोरैरभिभूतो मानवो भवति ॥ ३६॥ सौम्यदशायां प्राप्ते मित्रादाब्याद्धनस्य सम्प्राप्तिः । दीक्षितनृपते ताद्वणिग्जनाच्चापि सम्भवति ॥ ३७॥ वेसरमहीसुवर्ण शुक्तिद्रव्यं यशः प्रशंसा च । दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः ॥ ३८॥ धर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति ।
गणितालेख्यालिपीनां कौतुकभागी सदा पुरुषः ॥ ३९ ॥ १ ताम्रकसुवर्ण. २ ताक्षी. ३ पुत्रान्.
Aho ! Shrutgyanam