________________
चत्वारिंशोऽध्यायः ।
१६७ दुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम् ।। सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादमरतिं च ॥ १४ ॥ बन्ध्वर्थक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम् । दृष्टे तद्योनिसमैः शेषैश्चन्द्रे निशाफलोगः ॥ १५ ॥ पाकस्वामिनि लग्ने सुहृदां वर्गेऽथवाऽपि सौम्यानाम् । श्रेष्ठदशायां सूतिर्लग्नादुपचयगृहस्थैर्वा ॥ १६ ॥ मित्रोचोपचयस्थाने त्रिकोणे सप्तमे तथा । पाकेश्वरात्स्थितश्चन्द्रः कुरुते स्वफलां दशाम् ॥ १७ ॥ विपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते । स्वोचगस्यापि खेटस्य दशा न प्रतिपूजिता ॥ १८॥ शत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च । दशा मिश्रफला रिक्ता विबलस्य दशा मता ॥ १९ ॥ द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमा । चरे मिथप्रतीपा च स्थिरे पापेष्टमध्यमाः ॥ २० ॥ चन्द्रावनेयसोमजसितजीवदिवाकरार्किहोराणाम् । क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव ॥ २१ ॥ वोचस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा । उत्तमशुभफलदासौ ग्रहस्य नित्यं दशा भवति ॥ २२॥ स्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा । स्वोच्चाभिलाषिणश्चैव मित्रराश्यादिसंस्थिते ॥ २३॥ शुभाधमदशा ज्ञेया विपरीतमतस्थिते । अनेनैव विधानेन विज्ञेया पापदा दशा ॥२४॥ भानुदशायां लभते नवौषधावविषदौस्थ्यनरर्थ्यात् । गिरिदन्तचर्मवह्निक्रौर्य नरेन्द्राहवाद्यैश्च ॥ २५ ॥ नृपतेरर्धावीप्तिं धैर्य भूयस्तथोद्यमं तैक्ष्ण्यम् ।
१ स्फूर्तिः. २ गृहस्थो, गृहस्थे. ३ सुफलां, सफलां. ४ विपरीतमतश्चन्द्रे ५ द्रेकाणैश्च, द्रेकाणस्य. ६ मिश्रे. ७ अनुपम. ८ स्याद्र. ९ पौरुषमेधावविषयकालनैरर्थान्, १० द्वैरंभूयो.
Aho ! Shrutgyanam