________________
Me
१६४
सारावली। परमायुषः स्वरांशं ददति खगा जीवशर्मोक्तम् ॥३॥ विलग्नादिकला भाज्या व्योमशून्ययमैः समाः । लभ्यन्तेऽर्कहताः शेषाः स्वमानगुणितांशकाः ॥ ४ ॥ होरा सर्वबलोपेता राज्ञितुल्या नियच्छति । वर्षाण्यन्यानि मासादिभागैस्त्रैराशिकात्पुनः ॥ ५॥ वर्गोत्तमे स्वभवने स्वद्रेक्काणे नवांशके । द्विगुणं सम्प्रयच्छन्ति त्रिगुणं वक्रतुङ्गयोः ॥६॥ यदा तूपचयः सर्वः स्वराश्यादिस्थितैग्रहैः । समस्तवर्गणा तत्र कर्तव्या शास्त्रचिन्तकैः ॥७॥ केन्द्रादिसंस्थिते खेटे सकलद्विगुणैककाः । शंसन्ति वर्गणां केचिन्नं च चूडामणेर्मतम् ॥ ८॥ बहुताडेंनसम्प्राप्तौ यां करोत्येकवर्गणाम् । वराहमिहिराचार्यः सा न दृष्टा पुरातनैः ॥ ९॥ रिपुराशौ त्रिभागोनम(नं निग्नगास्तगाः । दायं ग्रहाः प्रयच्छन्ति नास्तगौ सितभानुजौ ॥ १० ॥ सर्वमधू तृतीयांशश्चतुर्थः पञ्चमस्तथा । षष्ठश्चाशः क्षयं याति व्ययाद्वामं ग्रहे स्थिते ॥ ११ ॥ सौम्ये चार्धमितो याति नाशं बहुभिरेकगैः। एक एव बली हन्ति स्वायुषः सर्वदा ग्रहः ॥ १२॥ एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः । तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु ॥ १३ ॥ गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः । विंशती रविपुत्रस्य पिण्डायुः खोचसंस्थितेः ॥ १४ ॥ खोचसिद्धो ग्रहः शोध्यः षड्राश्यूनो भमण्डलात् । स्वपिण्डगुणितो भक्तो राशिमानेन वत्सराः ॥१५॥ पूर्वोक्तं चिन्तयेत्सर्वं वक्र मुक्त्वारिराशिषु ।
१ हतात् , नताः. २ शेष. ३ नाम. ४ ताः खकाः. ५ स्थिते. ६ प्रहे. ७ गाम् , काम्. ८ तच्च ननु, तत्तु. ९ वर्गण. १० शुद्धो. ११ भादि.
Aho ! Shrutgyanam