________________
एकोनचत्वारिंशोऽध्यायः। सहस्रं राजयोगानां मन्दमेव करोत्यसौ ॥ १६ ॥ स्वत्रिकोणगृहं केचित्स्योचं याताः स्वमन्दिरम् । अतिनीचे रविश्थैको न तेषां फलसंभवः ॥१७॥ गुरुमृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम् । कामातमधनं वेश्या यद्वदिन्दुन चेत्स्वभे ॥ १८ ॥ एकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः ।। विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात् ॥ १९ ॥ भिक्षामटति व्यायनींचदंगतैः सुदुःखितो मलिनः । सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः ॥ २० ॥ अत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगश्च गगनचरैः । नाशं प्रयाति राजा यदि रविचन्द्रौ न तुङ्गस्थौ ॥ २१ ॥ सचिवो दानवेन्द्रस्य नीचांशे समवस्थितः । संप्राप्तमतुलं राज्यं नरैर्हापयते ध्रुवम् ॥ २२ ॥ राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः । परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात् ॥ २३ ॥ कमलभवनबन्धुः कन्ययालिङ्गिताङ्ग
स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः । न च यदि परिशेपैदृश्यते स्यात्स भूपः
प्रचलितगजमेघच्छादिताशानभोभ्रः ॥ २४ ॥ ॥ इति कल्याणवर्मविरचितायां सारावल्यां राजयोगभङ्गो नामाष्टत्रिंशोध्यायः ॥
एकोनचत्वारिंशोऽध्यायः। अस्मिन्नायुर्दाये यस्माद्धान्तः समस्तलोकोऽयम् । तस्मात्पूर्वागमतः कथयामि निराकुलीकृत्य ॥१॥ अशोद्भवं विलग्नात्पैण्ड्यं भानोनिसर्गजं चन्द्रात् । एतेषां यो बलवानेकतमस्तस्य कल्पयेदायुः ॥ २ ॥
लग्नदिवाकरचन्द्रास्त्रयोऽपि बलरिक्ततां यदा यान्ति । १ वश्य मिन्दुः.
Aho ! Shrutgyanam