________________
सारावली ।
सर्वे क्रूराः केन्द्रे नीचारिगता न सौम्ययुतदृष्टाः । शुभदा व्ययरिपुरन्ध्रे तदाऽपि भङ्गो भवेन्नृपतेः ॥ ४ ॥ लग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्गः । भवति हि नृपयोगानां दारिद्याय प्रजातस्य ॥ ५ ॥ घटोदये नीचगतैस्त्रिभिग्रहैर्बृहस्पतौ सूर्ययुते च नीचगे । एकोऽपि नोचे तु शुभेन सङ्गताः प्रयान्ति नाशं शतशो नृपोद्भवाः ६ शून्येषु केन्द्रेषु शुभैर्नवेन्दावस्तं गतैनचमथ प्रयातैः । चतुवीsपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योगः ॥ ७ ॥ स्वांशे रखौ शीतकरे विनष्टे पाँपैश्च दृष्टे शुभदृष्टिहीने । कृत्वाऽपि राज्यं च वने मनुष्यः पश्चात्सुदुःखं लभते गताशः ॥ ८ ॥ शिशिरकिरणशत्रुर्लग्नॅपश्चन्द्रदृष्टः
१६२
सहजरिपुमदस्था भानुभूपुत्रमन्दाः । शुभविरहित केन्द्रैरस्तगैर्वाऽपि सौम्यैर्नृपतिजननयोगा यान्ति नाशं क्षणेन ॥ ९॥
पञ्चभिर्निम्नगैः खेटैरस्तं यातैरथापि वा ।
प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिताः ॥ १० ॥ उल्कायाः पतने चैव निर्घातव्यतिपातयोः । केतोच दर्शने चैव यान्ति नाशं नृपोद्भवाः ॥ ११ ॥ अन्यैः क्रूरोत्पातैस्त्रिशङ्कतारा यदोदयं यान्ति । सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने ॥ १२ ॥ कर्तारो नृपतीनां गगनसदो युद्धकाङ्क्षिणो मलिनाः । रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य ॥ १३ ॥ परनीचं गते चन्द्रे क्षीणो योगो महीपतेः । नाशमायाति राजेव दैवज्ञप्रतिलोमगः ॥ १४ ॥ तुलायां पद्मिनीबन्धुस्त्रिंशांशे दशमे स्थितः । हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम् ॥ १५ ॥ जूकस्य दशमे भागे स्थितः कमलबोधनः ।
१ त्वशुभेन. २ लग्नवच्चन्द्रदृष्टः.
Aho! Shrutgyanam