________________
चत्वारिंशोऽध्यायः।
१६५ क्षयस्तत्र प्रकर्तव्यो नीचेऽधं वृद्धिरुचगे ॥१६॥ लग्नदायोंऽशतुल्यः स्यादन्तन्रे चानुपाततः । तत्पतौ बलसंपन्ने राशितुल्यं स्वभाधिपे ॥१७॥ लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा । भक्त्वा मण्डललिप्ताभिर्लब्धं वषाद्विशोधयेत् ॥ १८ ॥ स्वायुषो लग्नगे क्रूरे लब्धस्यार्धं शुभेक्षिते । एवमेव प्रकर्तव्यं जीवशर्मोक्तचन्द्रजे ॥ १९ ॥ विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत् । वर्षाणामपि संख्याः सूर्यादीनां निसर्गभवाः ॥ २० ॥ मीनोदयेंऽशे नवमे पञ्चविंशतिलिप्तिके ।। गवि सौम्यैः स्वतुङ्गस्थैः शेपैरायुः परं भवेत् ॥२१॥ कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ । शेपैस्त्रिलाभषष्ठस्थैरमितायुर्भवेन्नरः ॥ २२ ॥ द्विघ्नाः षष्ठिनिशाः पञ्च परमं नरदन्तिनाम् । द्वात्रिंशद्वाजिनामायुश्छागादीनां तु षोडश ॥ २३ ॥ खरोष्ट्रयोः पञ्चवर्ग एकोऽपोह्यं वृषादिषु । शुनां तु द्वादश प्रोक्तं गणितं परमायुषम् । तत्तत्परं प्रमाणेन हत्वैषामायुरादिशेत् ॥ २४ ॥
पथ्याशिनां शीलवतां नराणां __ सद्वृत्तभाजां विजितेन्द्रियाणाम् । एवंविधानामिदमायुरत्र
चिन्त्यं सदा वृद्धमुनिप्रणीतम् ॥ २५ ॥ ॥इति कल्याणवर्मविरचितायां सारावल्यां आयुर्दायो नामैकोनचत्वारिंशोऽध्यायः॥
चत्वारिंशोध्यायः। आयुषो येन यद्दत्तं सा दशा तस्य कीर्तिता ।
खदोषगुणयोगेन स्वदशासु फलप्रदा ॥१॥ १ युक्ते, पृक्ते. २ वर्षादि. ३ परमे. ४ भव. ५ एका. ६ वृद्धि समाप्नोति मुनिप्रवादः, निसं सदा वृद्धमुनिप्रवादः.
Aho ! Shrutgyanam