________________
सारावली । द्विजलधिरशनायाः पक्षवेदाख्यसंख्यै
स्त्रिजलधिरशनाया वह्निवेदैस्तथैव ॥ २३॥ वेदाब्धिसंख्यैश्च मयूखजालैर्जाता नरेन्द्राः खलु सार्वभौमाः । सौम्याः सुरब्राह्मणभक्तिशीला दीर्घायुषः सत्वयुता भवन्ति ॥ २४ ॥
परतः परतः किरणैर्वीपान्तरपालका निरुपसर्गाः । सर्वनमस्याः सुभगा महेन्द्रतुल्यप्रतापाश्च ॥ २५ ॥ चत्वारिंशद्युक्ता पञ्चादिभिरत्र यस्य सूतौ स्यात् । ज्ञेयं तस्यारिष्टं सर्वक्षितिपालकं मुक्त्वा ॥ २६ ॥ भुवनभरसहिष्णोः सर्वतः क्षीणशत्रो
स्त्रिदशपतिमहिम्नः सर्वलोकस्तुतस्य । विदधति विहगानां रश्मयोऽतीव दीप्ता
स्तुरगकृतिसमानाश्चक्रवर्तित्वमेव ॥ २७ ॥ अभिमुखकरप्रवाहाः फलं प्रयच्छन्ति पुष्टतरमाशु । तद्विपरीतं पुंसां पराङ्मुखास्तु ग्रहेन्द्राणाम् ॥ २८ ॥ जन्मसमये ग्रहाणां रश्मीनां संक्षये क्षयो भवति ।
वृद्धेवर्धिष्णूनामधमोत्तमता क्रमेणैव ॥ २९॥ इति कल्याणवर्मविरचितायां सारावल्यां रश्मिचिन्ता नाम षट्रस्त्रिंशोऽध्यायः ॥
सप्तत्रिंशोऽध्यायः। श्रीदेवकीर्तिराजा पञ्चमहापुरुषलक्षणान्नृपतीन् । कथयति यांस्तानहमपि कथयामि निराकुलीकृत्य ॥१॥ स्वक्षेत्रे च चतुष्टये च बलिभिः स्वोचस्थितैर्वा ग्रहैः __शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथानुक्रमम् । मालव्यो रुचकः शशोऽथ कथितो हंसश्च भद्रस्तथा
सर्वेषामपि विस्त॑रं मतिमतां संक्षिप्यते लक्षणम् ॥२॥ महीसुतात्सत्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्गुरोश्च ।
स्वरं सितास्नेहमिनेश्च वर्णं बलाबलं पूर्णलघूनि चैषाम्॥३॥ १ चत्वारिंशद्वित्ता. २ सर्वक्षितिपालकानुक्ताः (?) २ मति. ४ विस्तरान्मुनिमतात्संकल्प्य ते. ५ बलैः.
Aho ! Shrutgyanam