________________
पत्रिंशोऽध्यायः।
जायन्तेऽत्र मनुष्याः सौभाग्यपरिच्युता मलिनाः ॥११॥ ऊवं पञ्चदशाप्ति-वत्तावद्बहुश्रुताः सुजनाः । धर्माभिरताः सुमुखाः कुलस्य तुल्याः प्रजायन्ते ॥ १२ ।। आविंशतेर्भवेयुः कुलाधिका धनयुता जनख्याताः। कीर्तिकराश्च मनुष्या यथाक्रमं स्वजनसम्पूज्याः ॥१३॥ पूज्याः सुभगा धीराः कृतिनो भूपास्तु शरकृतिर्यावत् । परतो भवन्ति मनुजाः संसाधितसकलकरणीयाः ॥१४॥ अत उत्तरेण चण्डा नृपाश्रिता नृपतिलब्धधनसौख्याः। त्रिंशद्यावत्सचिवाः पूज्याश्च भवन्ति भूपानाम् ॥ १५ ॥ एकत्रिंशद्भिस्तु प्रवराः ख्याता महीभुजामिष्टाः। द्वात्रिंशद्भिः पुरुषाः पञ्चाशद्रामपतयः स्युः ॥ १६ ॥ ग्रामसहस्राधिपतिं त्रिंशत्यधिका करोति रश्मीनाम् । त्रिसहस्रग्रामाणां पुरुषं सूतौ चतुस्त्रिंशत् ॥ १७ ॥ परतो मण्डलभाजो बहुकोशपरिग्रहा महासत्वाः । प्रख्यातकान्तियशसो भवन्ति सुभगाश्च लोकानाम् ॥१८॥ त्रिंशत्पड्भिः सहिता रश्मीनां यस्य जन्मसमये स्यात् । सार्धं भुनक्ति लक्षं स ग्रामाणां पुमान्नियतम् ॥ १९ ॥ त्रिंशन्मण्डलसहिता रश्मीनां सम्भवे भवेद्येषाम् । लक्षत्रितयपतित्वं ग्रामाणां जायते तेषाम् ॥ २० ॥ त्रिंशत्सनवा गावो जन्मनि येषां ग्रहोत्थिताः सन्ति । ते तोषितसकलजना भवन्ति पृथ्वीश्वराः पुरुषाः ॥ २१ ॥ दशजलधिगुणाया रश्मिसंख्या नराणां
दिशति पृथुलभूमेः पालकत्वं च तेषाम् । हतरिपुवनिताभिर्गीयतेऽतीव कीर्तिः
करुणरुदितगर्भेरुद्यदाक्रोशशब्दैः ॥ २२ ॥ शशिजलनिधिसंख्यै रश्मिभिः श्रूयते यो
जलनिधिरशनायाः पार्थिवः स्यात्स भूमेः ।
१ जन. २ धन. ३ सत्साधित. ४ पञ्चदशग्राम.
Aho! Shrutgyanam