________________
१५४
. सारावली। यत्सेनायास्ततमदजलक्षोभतो वारणेन्द्र
भूयः सेतोः स्मरति सहसा क्षोभितान्तोऽम्बुराशिः १८६ इति कल्याणवर्मविरचितायां सारावल्यां राजयोगाध्यायो नाम पञ्चत्रिंशः॥
षत्रिंशोऽध्यायः। रश्मिप्रधानमेतद्यस्माच्छास्त्रं वदन्ति माणिन्धाः । तस्मात्प्रयत्नतोऽहं कथयामि यथामतं तेषाम् ॥ १॥ स्वोचस्थे दश सूर्ये नव चन्द्रे पञ्च भूमितनये च । पञ्चेन्दुजे सुरेड्ये सप्ताष्टौ भार्गवे शनौ पञ्च ॥२॥ एवं महेन्द्रशास्त्रे मणिन्धमयबादरायणप्रोक्ते ।। सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम् ॥ ३॥ सर्वे प्रमाणमेते मुनिवचनात्किन्तु सप्तसंख्यैव । बहुवाक्यादस्माकं नीचगतः स्याद्विगतरश्मिः ॥४॥ अभिमुखरश्मिींचाद्दष्टः स्वोच्चात्पराङ्मुखो ज्ञेयः । अन्तरगतेऽनुपातो यथा तथा संप्रवक्ष्यामि ॥५॥ न्यूने मण्डलशोध्यश्चक्राषड्भवनतो यदाभ्यधिकः । आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात् ॥ ६॥ मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः । वक्रे पुनस्तथोचे स्वराशिगे तद्भवत्येव ॥ ७॥ द्विगुणाः स्युर्दीधितयो वक्रस्थेऽप्येवमेव स्युः । वैरिद्वादशभागे नीचे च भवन्ति षोडशांशोनाः ॥ ८॥ अस्तं गतो विरश्मिः शनिसितवर्ज ग्रहो ज्ञेयः । वक्रान्तस्थे द्विगुणा वक्रत्यागेऽष्टभागहीनाश्च । एवं रश्मिविधानं पूर्वाचार्यैः समुद्दिष्टम् ॥ ९ ॥ एकादि पञ्च यावद्रश्मिभिरतिदुःखिताः कुलविहीनाः । परतत्रका दरिद्रा नीचरता संभवन्ति नराः ॥१०॥
परतो दशकं यावद्भुतकादीनां विदेशगमनरताः। १ नीचविहीनः. २ ताप.
Aho ! Shrutgyanam