________________
पञ्चस्त्रिंशोऽध्यायः ।
चन्द्राद्रहर्निगदिताः सुनफादयश्च
केन्द्रस्थितैर्यदि भवन्ति च तेऽत्र योगाः। विश्वम्भराधिपकुलेषु महत्सु जाता
योगेषु तेषु मनुजेश्वरतां लभन्ते ॥ १७७॥ केन्द्रगौ यदि तु जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ । भूपतिर्भवति सोऽतुलकीर्तिींचगो यदि न कश्चिदिह स्यात् १७८
उदयशिखरिसंस्थो भार्गवो यत्र तत्र
बुधरविसुतदृष्टः स्वांशकस्थोऽतिवीर्यः । जनयति नरनाथं वाक्पतौ पञ्चमस्थे
भुजबलहतशत्रु सार्वभौमं गजाढ्यम् ॥ १७९ ॥ सिंहे कमलिनीनाथः कुलीरस्थो निशाकरः । दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा ॥ १८० ॥ बुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरम् । सूर्यभूसुतदृष्टौ च यदि स्फीतो महीपतिः ।। १८१ ॥ शफरीयुगले चन्द्रः कर्कटे च बृहस्पतिः । शुक्रः कुम्भे यदा शक्तस्तदा राजा भवेदिह ॥ १८२ ॥ सितदृष्टः शनिः कुम्भे पभिनीदयितो भवे । चंद्रे जलचरे राशौ यदि जातो नृपो भवेत् ॥ १८३ ॥ कुजोऽलिगोऽथ मेषे वा रविजीवनिरीक्षितः । वृषे ज्ञो जीवंसंदृष्टस्तदाऽपि पृथिवीपतिः ॥ १८४ ॥ अमलवपुरवक्रः कैरवाणां विकासी
स्वगृहमथ नवांशं स्वोच्चमांशं गतो वा ॥ हितगगननिवासैः पञ्चभिदृश्यमानो
जनयति जगतीशं नीचभे नो यदि स्यात् ॥१८५॥ लाभे मन्दो गुरुभृगुसुतावुद्गमे खे शशाङ्को
बन्धावर्को बुधकुतनयौ वक्रगौ चेत्स भूपः ।
१ दयितोदये. २ शुक्र. ३ तन-यावर्थगौ.
Aho ! Shrutgyanam