________________
.सारावली। विदधाति सार्वभौमं त्रिपुष्करे वाऽपि परिपूर्णः ॥ १६४ ॥ अश्विन्यनुराधास्थः स्थितः श्रविष्ठासु पार्थिवं भौमः । कुरुते खोचमुपगतो वर्गोत्तमगश्च नान्यत्र ॥ १६५ ॥ व्योनि शंखधवलो निशाकरो भार्गवस्तपसि संस्थितः शुचिः। आयगाश्च यदि सर्व एव ते स्यान्महीपतिरतुल्यपौरुषः॥१६६॥
चन्द्रादुपचयसंस्था गगनसदः सर्व एव यदि सूतौ । जायेत माननिलयः समस्तपृथ्वीपतिः पुरुषः ॥१६७॥ जीवनिशाकरसूर्याः पञ्चमनवमतृतीयगा वक्रात् ।
यदि भवति तदा राजा कुबेरतुल्यो धनैर्वासौ ॥ १६८ ॥ रविस्तृतीये भृगुनन्दनः सुखे बुधस्य चान्ये यदि पञ्चमे स्थिताः। न नीचराशौ न च शत्रुवेश्मगा भवेन्नरेन्द्रस्त्रिसमुद्रपारगः॥१६९॥ बृहस्पते मदिवाकरेन्दवो गता द्वितीयाम्बुनभःस्थलं क्रमात् । विपक्षराशौ परिशेषखेचरा यदा तदा भूमिपतिर्नृपात्मजः॥१७०॥ भृगोरपत्यादुधभास्करात्मजौ चतुष्टयस्थौ परिशेषखेचराः। तृतीयलाभक्षगतास्तु ते यदा महीपतिं कुर्युरसंशयं तदा ॥१७१॥
शुक्रबुधौ रवितनयाकेन्द्रे वाचस्पतिर्भवेदुच्चे । सिंहासनाधिशायी यदि राजा स्वोचगाश्च परिशेषाः॥१७२॥ सवितुस्तृतीयपञ्चमलाभक्षुसमाश्रिताः सदा यस्य । सर्वे ग्रहाः स नृपतिर्मत्री सेनापतिर्वाऽपि ॥ १७३ ॥ लग्नपतेः स्फुटरश्मेः पापा लाभे शुभाश्च केन्द्रस्थाः । यदि भवति तदा नृपतिः स्वभुजार्जितसर्वभूमितलः॥१७४॥ लाभे तृतीयषष्ठे यदि पापा जन्मपस्य शुभदृष्टाः । भवति तदा धरणीशः समस्तनृपवन्दितः साधुः ॥ १७५ ॥ विचरति सुरपूज्यो मेषभेऽथापि सिंहे
दहनकिरणदृष्टे भूमिपुत्रे स्वराशौ । · न च गगनविचारी कश्चिदेकोऽपि नीचे
यदि नृपतिसमुत्थो जायते पार्थिवेन्द्रः ॥ १७६ ॥
१ सूर्य. २ पालकः. ३ सुरश्मौ.
Aho ! Shrutgyanam