________________
पञ्चत्रिंशोऽध्यायः ।
१५१ क्षोणीभर्ता याने यस्य . अविचलिततुरगरजसा दिशः परितो गतः । एवं कर्तुर्भूयो भूयो ___ धरणितलपरिमलसुखं प्रयान्ति रखेहयाः ॥१५३॥ शशिसहिते केन्द्रस्थे शनैश्चरे भवति जारजातस्तु ।
राजा भुवि गजतुरगग्रामधनैर्वर्धितश्रीकः ॥१५४॥ शुक्रवाक्पतिबुधैर्धनसंस्थैर्दूनगैः शशिरविक्षितिपुत्रैः । जायते क्षितिपतिः पृथुवक्षाः सर्वतः क्षपितशत्रुसमूहः ॥१५५॥ . भानुः प्राणी शशिगृहयुतः शीतरश्मिश्च तस्मि
नेकः स्वोचे यदि गगनगो निर्मलः पूर्णरश्मिः । लग्नं प्राप्तः सुरपतिगुरुः षष्ठगः स्यात्क्षितीश____ श्छन्नो यस्य प्रचलितचमूरेणुभिव्योममार्गः॥१५६॥ कुम्भस्याष्टमभागे त्रिकोणसंस्थे (पि च) निशानाथे । जातो भवत्यवश्यं राजा शुभदः समस्तलोकस्य ॥ १५७॥ मेषस्य सप्तमांशे करोति पृथ्वीसुतः स्थितो नृपतिम् । सिंहस्य पञ्चमांशे नरमिथुनांशे भवेद्भूपः ॥१५८॥ कुम्भस्य पञ्चदशके भागे चन्द्रः स्थितो महीपालम् । कर्कटकस्य च दशमे करोति पुरुषं सदा प्रभवे ॥ १५९ ।। धनुषि च विंशे जीवः करोति नृपतिं स्थितो जनख्यातम् । सिंहस्य पञ्चमांशे तथा च हेलिबुंधो ज्ञेयः ॥ १६०॥ एकस्मिन्पञ्चकृतौ पञ्चदशवास्थितश्चन्द्रः । भागेषु वीरनृपतिं करोति भुजलब्धपृथ्वीकम् ॥१६१॥ मकरस्य पञ्चमांशे करोति पुरुषं नरेश्वरं सुनयम् । योगे भूतलतिलकं धर्मज्ञं शास्त्रनिरतं च ॥ १६२॥ कर्कटके शशिजीवौ पञ्चसु भागेषु संस्थितौ कुरुतः । भूमिपतिमप्रधृष्यं रविरिव सर्वग्रहगणस्य ॥१६३॥
चन्द्रः पुष्ये नृपतिं वर्गोत्तमकृत्तिकाश्विनीसंस्थः। १ गतैः. २ परिभ्रम. ३ जातोत्र. ४ एकाधिकविंशेशे. ५ त्रिंशे. ६ रविजो. ७ सुभगम्.
Aho ! Shrutgyanam