________________
सप्तत्रिंशोऽध्यायः ।
मृदुर्दयालुर्बहुदारभृत्यः स्थिरस्वभावः प्रियसत्यवादी । सुरद्विजोपास्तिकरः सहिष्णुर्भवेन्नरः सत्वगुणप्रधानः ॥ ४ ॥ शूरः कलाकाव्यनिधिः सुबुद्धिः स्त्रीभोगैसंसक्तमनाः प्रवीणः । अडम्बरी हास्यतिः प्रगल्भो गयाक्षविद्राजसिकः प्रदिष्टः ॥ ५ ॥ मूर्खोऽलसो वञ्चयिता परेषां क्रोधी विषण्णः पिशुनः क्षुधातः । आचारहीनो न शुचिर्मदान्धो लुब्धः प्रमादी तमसाभिभूतः ॥ ६ ॥ भारो भवति नृपाणां भूम्यर्थं भुञ्जतां मनुष्याणाम् । येषां भोगे त्वधं सकलमहीपालकास्ते स्युः ॥ ७ ॥ समाः खरैः सिंहमृदङ्गदन्तिनां रथौघभेरीवृपतोयदायिनाम् । समस्तभूमण्डलरक्षणक्षमा भवन्ति भूपा जितशत्रवो नराः ॥ ८ ॥ स्निग्धैर्भवन्ति भूपा जिह्वात्वग्दन्तनेत्रनखकेशैः । रूक्षैरेभिर्निःस्वाः स्वरैश्च ते जातके कथिताः ॥ ९ ॥ स्निग्धस्तेजोयुक्तः शुद्धो वर्णः प्रकीर्तितो नृपतेः ।
विपरीतः क्लेशभुजां सुखार्थसुखभागिनां मध्यः ॥ १० ॥ व्योमाम्बुवताग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्यैः । छायामरुत्पित्तकफस्वरूपा मिश्रैस्तु मिश्रा बलिभिर्नरस्य ॥ ११ ॥ शब्दार्थविन्यायपटुः प्रगल्भो विज्ञानयुक्तो विवृतास्यभागः । चित्राङ्गसन्धिः कृशपाणिपादो व्योमप्रकृत्या पुरुषोऽतिदीर्घः ॥ १२॥ लावण्यवाही बहुभारवाही प्रियादिभाषी दैवभोजनश्च ।
१५७
चलखरूपो बहुमित्रपक्षः क्षोणीपतिर्नातिचिरप्रगल्भः ॥ १३ ॥ सत्वेन वायोः पुरुषः कृशाङ्गः क्षिप्रं च कोपस्य वशं प्रयाति । कृत्यैकबुद्धिभ्रमणे रतश्च दाता सितो भूपतिरप्रधृष्यः ॥ १४ ॥ शूरः क्षुधार्तश्चपलोऽतितीक्ष्णः प्राज्ञः कृशो गौरतनुर्विरोधी । विद्वान्सुपौणिर्बहुभक्षणश्च वह्निस्वभावः पुरुषोऽतिकायः ॥ १५ ॥ कर्पूरजात्युत्पलपुष्पगन्धो भुनक्ति भोगान् स्थिरलब्धसौख्यः । सिंहाभ्रघोषः स्थिरचित्तवृत्तिर्महीस्वभावः पुरुषः संसत्वः ॥ १६ ॥
१ दास २ निविष्टबुद्धिः ३ सक्तचित्तः क्रतुषु . ४ रतः ५ गोपोक्षविद्रा, वेदार्थविद्रा. ६ प्रसिद्धः ७ दात. ८ भूराश्य, भूत्यर्ध. ९ भाराध्यर्धं. ११ ध्रुव. १२ तृष्णः १३ सुमानी. १४ सुसत्वः.
१० कफानु.
१४ सारा०
Aho! Shrutgyanam