SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशोऽध्यायः। तपसि च रविपुत्रे जायते पार्थिवेन्द्रः प्रथितविमलकीर्तिर्दानधर्मप्रतापैः ॥१३४॥ त्रिदशगुरो रविर्हिमकरस्य भृगोस्तनयो रवितनयः कुजस्य खलु दृष्टिपथं च गतः । भवति विलग्नगो यदि चरोदयराशिगतः प्रथितयशा भवेत्क्षितिपतिः क्षपितारिगणः ॥ १३५ ।। बुधः कन्यालग्ने सुरपतिगुरुश्चैव तिमिगः स्थितः क्षोणीपुत्रः प्रसवसमये वीर्यसहितः । शनिः शत्रुस्थाने त्रिदशरिपुपूज्यश्च हिबुके यदैवं स्यात्सूतौ स्वभुजविजयी भूपतिरिह ॥१३६॥ यमे विलग्ने मकरप्रतिष्ठिते दिवाकरे यूनगते सितेऽष्टमे । कुजेलिगे कर्कटगे निशाकरे भवेत्प्रसिद्धो जगतीश्वरो नृपः ॥१३७॥ मृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगृहे व्यवस्थिते । दिवाकरे सप्तमगे सहेन्दुना चलस्वभावो नृपतिः प्रजायते ॥१३८॥ शनैश्चरे लग्नगते सचन्द्रे बृहस्पतौ सप्तमराशिगे च । शुक्रेण दृष्टे शशिजे स्वतुङ्गे जायेत पृथ्वीपतिरप्रधृष्यः ॥१३९॥ चापे भवेत्सुरगुरुहूं तदृष्टिशुद्धो ____ लग्ने सुरारिदयितः शशिनि स्वराशौ । वापीतडागसुरवेश्मकरो नरोत्र - जायेत मानवपतिर्द्विजदेवभक्तः ॥ १४० ॥ एकः स्वोच्चे शुभगगनगः संस्थितो निर्मलांशुः केन्द्रे भानुः प्रकटितकरः केवलः पूर्णवीर्यः । दृष्टः कुर्यादमरगुरुणा पञ्चमस्थेन जातं भूमे थं बहुगजपतिं सर्ववन्धं कृतार्थम् ॥१४१॥ षष्ठे कुजार्किरवयः सहजेऽथवाऽपि सिंहे सुरारिसचिवोऽथ भवर्भसंस्थः । १ प्रथमभवने. २ पापाभवे सुरपुरोहितदृष्टिशुद्धा. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy