SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४८ सारावली । गजतुरगपत्तिविचलितरंजोवितानं भवेद्गगनम् ॥ १२७ ॥ कुजे विलग्ने तरणेश्च नन्दने रसातले शुक्रबृहस्पतीन्दुजाः । मृगोदये मन्दनवांशकस्थिते रसातलेशो भवतीह पार्थिवः ॥ १२८ ॥ स्वोच्चे गुरुस्तनुगतः स्वगृहे शशाङ्कः शुक्रो झषे परममुच्चमितोऽसितश्च । मेषे तथैव भगवान्सविता कुजः स्व वर्गाधिपो यदि भवेन्नृपतिः प्रजातः ॥ १२९ ॥ शक्रेड्यः ससितः शुचिस्तिमियुगे स्वोच्चे च पूर्णः शशी दृष्टस्तीत्रविलोचनेन दिनकृन्मेषे यदासौ नृपः । सेनायाश्चलनेन रेणुपटलैर्यस्य प्रनष्टे रवा वस्तभ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति ॥ १३० ॥ क्रूरैनींचे रिपुभवनगैः षष्ठदुश्चिक्यगैवी सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैश्च । आज्ञां यात शिशिरकिरणे कर्कटस्थे निशाया मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥ १३१ ॥ होरालेखामुपेतः स्फुटकरनिकरैः पूरिताङ्गः सुरेज्य चन्द्रः शुक्लार्धदेहो भवभवनगतः खेन पुत्रेण दृष्टः । चन्द्रानुर्द्वितीये यदि भवति तदा नैव दृष्टः कुजेन पाता जायेत भूमेर्बहुगजतुरगक्षुण्ण भूपृष्ठपीठः ॥ १३२॥ रविशशिकुजै लग्ने सिताकिंबुधैर्वृषे धनुषि नवमे देवेज्ये च स्वभांशमुपागते । रविरपि यदि स्वोच्चे वर्गे प्रधानबलोदयो भवति नृपतिः सिंद्धाज्ञातो हतारिरणोद्भवः ॥ १३३ ॥ सितशशिसुतजीवैः पञ्चमस्थैर्नभोगे रविरपि रिपुराशौ स्वोचगे भूमिपुत्रे | १ पांसु. २ च स्वर्गाधिपो; च द्वीपाधिपो ३ खगेन चैव ४ भानुस्तृतीये. विद्वानुजातो. ५ Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy