SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशोऽध्यायः । रविरप्यधिमित्रस्थो यदि चन्द्रसमीक्षितः । अङ्गदेशाधिपं कुर्याद्धर्मार्थसहितं नृपम् ॥ ११५ ॥ उच्चस्थः शशितनयः कुमुदाकरबन्धुना च समधिगतः । जनयति मगधाधिपतिं गजमदगन्धेन वासितदिगन्तम् ॥ ११६ ॥ प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः । एकोऽपि कुरुते जातं नराधिपमरिंदमम् ॥ ११७ ॥ केन्द्रे विलग्ननाथः श्रेष्ठबलो मानवाधिपं कुरुते । गोपालकुलेऽपि नरं किं पुनरवनीश्वराणां च ॥ ११८ ॥ कर्कटसंस्थः केन्द्रे बृहस्पतिर्दशेमधामगः शशिनः । चतुरुदधिमेखलायाः स्वामी भूमेर्भवति जातः ॥ ११९ ॥ मेषे सहस्ररश्मिः सह शशिना संस्थितः करोतीशम् । केरलकर्णाटान्ध्रद्रविडानां चोलकस्यापि ॥ १२० ॥ उच्चस्थ स्त्रिदशगुरुः कैरववनबन्धुसङ्गमं प्राप्तः । काश्मीरमण्डलभुवां करोति पुरुषाधिपमवश्यम् ॥ १२१ ॥ तुङ्गायखगृहोदय कण्टकनवमेषु यस्य शुक्रगुरू । सोवश्यं भवति नरो राजांशसमुद्भवो नृपतिः ॥ १२२॥ दिक्स्थानकालादिबलैरुदाराः शुभाः पुनः केन्द्रमुपागताश्च । कुर्वन्ति पापैरविमिश्रचाराः पृथ्वीभुजं त्रिप्रभृतिग्रहेन्द्राः ॥ १२३ ॥ खेर्द्वितीये बुधजीव भार्गवा नचाशुभैर्दृष्टयुता नॅ वार्कगाः । स्फुरत्करौघस्फुटपिञ्जरीकृता नरं प्रकुर्युस्त्रिसमुद्रपालकम् ॥ १२४ ॥ कुन्दाब्जकाशधवलः परिपूर्ण मूर्ति र्जन्माधिपेन कॅविना शुभदेन दृष्टः । स्त्रीमानभङ्गनिपुणं दयितं क्षपायाः प्रख्यातकीर्तिसुनयं कुरुते नरेन्द्रम् ॥ १२५ ॥ देवमन्त्री कुटुम्बस्यो भार्गवेण समन्वितः । जनयेद्वसुधापालं निर्जितारातिमण्डलम् ॥ १२६ ॥ कारकयोगे जाता भवन्ति पृथ्वीभुजो नरास्तेषाम् । १ सहितः २ र्मृगगतश्च सितः ३ राजांग. ४ चार्क. ५ बलिना. Aho! Shrutgyanam १४७
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy