________________
१४६
सारावली ।
नक्षत्रनाथसहितः सविता नभःस्थः _ सौरिविलग्नभवने हिबुके सुरेज्यः । देवारिपूज्यबुधभूमिसुतैः सलाभैः
ख्यातो महीपतिरिह स्वगुणैर्नरः स्यात् ॥१०३॥ मृगराशिं परित्यज्य स्थितो लग्ने बृहस्पतिः । करोत्यवश्यं नृपतिं मत्तेभपरिवारितम् ॥ १०४॥ लग्ने भौमो रविजसहितस्तीक्ष्णरश्मिः खमध्ये __वाचां स्वामी मदनगृहगो भार्गवो धर्मसंस्थः । आये हेम्नः शिशिरकिरणो बन्धुराशिं प्रपन्नो
। यद्येवं स्याद्विपुलयशसो जन्म भूपालकस्य ॥१०५॥ न्यूनोऽपि कुमुदबन्धुः स्वोच्चस्थः पार्थिवं करोति नरम् । किं पुनरखण्डमण्डलकरनिकरप्रकटितदिगन्तः ॥१०६॥
लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः । विदधाति महीपालं विक्रमधनवाहनोपेतम् ॥ १०७॥ यदि पश्यति दानवार्चितं वचसामधिपस्तदा भवेत् । नृपतिर्बहुनागनायको भुजगेन्द्र इव प्रतापवान् ॥ १०८ ॥ दिवौकसां पतेमंत्री कुर्यात्पश्यन्बुधं नरम् । शिरोभिः शासनं तस्य धारयन्ति नृपाः सदा ॥१०९॥ लग्नाधिपतिः स्वोचे पश्यन्मृगलाञ्छनं नृपं कुरुते । बहुगजतुरगबलौषैः क्षपितविपक्षं महाविभवम् ॥११० ।। इन्दुः स्खोचे पश्यन्करोति बुधभार्गवौ नरं नृपतिम् । प्रणतारिपक्षमुच्छ्रितयशसं सौभाग्यवन्तं च ॥ १११॥ अधिमित्रांशगश्चन्द्रो दृष्टो दानवमत्रिणा । अनिशं कुरुते लक्ष्मीस्वामिनं भूपतिं नरम् ॥ ११२ ॥ खांशेऽधिमित्रभावे वा गुरुणा यदि दृश्यते । शशी महीपतिं कुर्यादिवसे नात्र संशयः ॥११३॥ जन्माधिपतिः केन्द्रे बलपरिपूर्णः करोति परमर्द्धिम् ।
ब्राह्मणकुलेऽपि नृपतिं किं पुनरवनीशसंभूतम् ॥ ११४॥ १ विमल. २ क्षीणोऽपि. ३ खोच्चगतः. ४ वारणो. ५ यदा. ६ गुरुभार्गवी.
Aho ! Shrutgyanam