SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशोऽध्यायः । सुखतनुमदगाः शुभाः समग्राः कुजरविरविजास्त्रिधर्मलाभसंस्थाः । यदि भवति महीपतिः प्रशान्तो यवनपतिकृतो ह्ययं महीपयोगः ।। ९५ । लाभधर्मस्थिताः सौम्याः पापाः कर्मणि संस्थिताः । नृपतीनामयं योगो भवेत्कलशसंज्ञितः ॥ ९६ ॥ यो ग्रहा भ्रातृसुतायसंस्थास्तथा शुभौ द्वौ रिपुसङ्गतौ च । कलत्रलग्नं च गतौ च शेषौ नृपस्य योगः खलु पूर्णकुम्भः ॥९७॥ सुविस्तरं नीचकुलोद्भवा मया विचित्ररूपाः कथिताः क्षितीश्वराः । अतः परं पार्थिववंशजन्मनां भवन्ति योगा मुनिभिः प्रकीर्तिताः ॥ ९८ ॥ सिंहोदये दिनकरो मृगलाञ्छनोजे' कुम्भस्थितो रविसुतः स्वगृहे सुरेज्यः । स्वोच्चेऽपि भूमितनयः पृथिवीश्वरस्य जन्मप्रदः सकललोकनमस्कृतस्य ॥ ९९ ॥ शुभे लग्नं याते बलवति तथा धर्मराशिक्रमेण शुभैः शेषैर्लग्नं धनगृहमथ न्यायषट्कर्मगैश्च । महीपालः श्रीमान्भवति नियतं यस्य मातङ्गसङ्घाः प्रयाणे मेघानां स्रुतमदजलै भ्रीन्तिमुत्पादयन्ति ॥ १०० ॥ सुरपतिगुरुर्बन्धुस्थाने स्ववेश्मगतो यदा १ वा. १४५ तुहिन किरणः सम्पूर्णाङ्गस्तपःसमवस्थितः । त्रितनुभवनप्राप्ताः शेषा ग्रहा यदि भूपतिः भवति धृतिमान्स्फीतश्रीकस्तथा बहुवाहनः १०१ स्वोच्चोदये कृतपदः कुमुदस्य बन्धुजीवोऽर्थगो वणिजि दानवपूजितश्च । कैन्याजसिंहगृहगा बुधभौमसूर्या चन्द्रांशुनिर्मलयशा भवति क्षितीशः ॥ १०२ ॥ २ दनुजपगुरु. ३ शेषाश्च मत्स्ययुगले यदि चेद्रहेन्द्राः । १३ सारा० Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy