SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशोऽध्यायः । १४१ लग्नाच्छशी त्रिरिपुलाभनभःस्थलेषु सूतावखण्डितवपुः पृथिवीश्वरः स्यात् । दृष्टः सुरेन्द्रगुरुणा न च वीक्षितोऽन्यै__ जन्माधिपो दशमगः स्मरगोऽथवा स्यात् ॥ ५५॥ बिभ्रद्रश्मिकरालपूर्णपरिधिनक्षत्रसम्पालक स्तुङ्गांशे समवस्थितैश्च सकलैः प्रोद्वीक्षितो व्योमगैः । कुर्याद्भूमिपतिं यशस्यचरितं हस्त्यश्वसैन्यं जगत् योव्याच्छेषफणीन्द्रतुल्यमखिलोर्वीभारखिन्नः श्वसन्॥५६॥ सुधामृणालोपमबिम्बशोभितः शशी नवांशे नलिनीप्रियस्य । यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥५७॥ शशिबुधरुधिराङ्गैः स्वांशकस्थैर्न नीचै घ्यगृहसहजस्थैर्नापि सूर्यप्रविष्टैः । तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते भवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥ ५८॥ नीचारिवर्गरहितैविहगैस्त्रिभिस्तु ___ स्वांशोपगैर्बलयुतैः शुभदृष्टिदृष्टैः । गोक्षीरशङ्खधवलो मृगलाञ्छनश्च स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥ ५९॥ कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं यदि बलसमुपेतः पश्यति व्योमचारी । उदयभवनसंस्थः पापसंज्ञो न चैवं भवति मनुजनाथः सार्वभौमः सुदेहः ॥६०॥ जलचरराशिनवांशक इन्दौ तनुभवने शुभदः स्वकवर्गे । अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः ॥६१॥ वर्गोत्तमे हिमकरः सकलः स्थितोऽशे कुर्यान्महीपतिमपूर्वयशोभिरामम् । यस्याश्ववृन्दखुरघातरजोभिभूतो भानुः प्रभातशशिनोऽनुकरोति रूपम् ॥ ६२॥ Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy