SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ - सारावली । परमोच्चगताः सर्वे खोचांशे यदि सोमजः । त्रैलोक्याधिपतिं कुर्युर्देवदानववन्दितम् ॥४५॥ यस्योत्तरस्यां भगवान्वसिष्ठो बृहस्पतिः प्रागपरे च भार्गवः । अगस्त्यनामा खलु दक्षिणस्यां स नष्टशत्रुश्च भवेन्नराधिपः॥४६॥ शशी पूर्णः स्वांशं स्वगृहमथवा खोचमं वा प्रयातो दिवः पातुर्मत्री दितिजगुरुणा वीक्षितः केन्द्रसंस्थः । रविर्लग्ने स्वांशं यदि बलयुतः पश्यति स्यात्स भूपः प्रभग्नं यस्येभैश्चतुरुदधिभूशल्लकीनामरण्यम् ॥४७॥ कुमुदगहनबन्धौ वीक्ष्यमाणे समस्तै गगनगृहनिवासैदीर्घजीवी नरः स्यात् । फलमशुभसमुत्थं नैव केमद्रुमोत्थं भवति मनुजनाथः सार्वभौमो जितारिः ॥४८॥ उच्चाभिलाषी सविता त्रिकोणे स्वः शशी जन्मनि यस्य जन्तोः । स शास्ति पृथ्वी बहुरत्नपूर्णां बृहस्पतिः कर्कटके यदि स्यात्॥४९॥ तुङ्गेषु पड्विबुधमार्गचरा उपेताः स्वांशे मयूखनिकरैः परिपूरितोङ्गाः । उत्पादयन्ति कुलिशाङ्कितपाणिपादं पृथ्वीपतिं सगरवेनययातितुल्यम् ॥ ५० ॥ शुभभवनसमेतैः सौम्यभागेषु सौम्यैः __ स्फुटरुचिरकराद्यैः प्रस्फुरद्भिर्विलग्ने । रविमुषितमयूखैस्तैश्च पापैरमिथै गिरिगहननिवासी तापसः स्यान्नरेन्द्रः ॥५१॥ शुभपणफरगाः शुभप्रदा उभयगृहे यदि पापसंचयः । स्वभुजहतरिपुर्महीपतिः सुरगुरुतुल्यमतिः प्रकीर्तितः॥५२॥ विलग्ननाथः खलु लग्नसंस्थः सुहृद्गृहे मित्रदृशां पथि स्थितः । करोति नाथं पृथिवीतलस्य दुर्वारवैरिघ्नमिहोदये शुभे ॥ ५३॥ सम्पूर्णमूर्तिभगवान्शशाङ्को मेषांशकस्थो गुरुणा च दृष्टः । नीचेन कश्चिन्न च वीक्षितोऽन्यैः प्राह क्षितीशं यवनाधिराजः ५४ १ कर्कटकोपगश्चेतू. २ परिपूरिताशाः. ३ इह. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy