________________
पञ्चत्रिंशोऽध्यायः ।
१३९ खांशेऽथ सुहृदुचांशे दृष्टः केन्द्रोपगैः शुभैः ॥३६ ॥ स्थितो भानोः पुत्रो विरचितबलः पश्चिमाधै मृगस्य
रविः सिंहे शुक्रस्तुलिनि रुधिरो मेषगः कर्किणीन्दुः । .. कुमारी सम्प्रासो यदि भवति वा शर्वरीनाथसूनुः
ग्रजातो भूपालश्छदयति महीमेकशुक्लातपत्राम् ॥ ३७॥
वर्गोत्तमस्वभवनेषु गता ग्रहेन्द्राः ___ सर्वे यदा रुचिररश्मिशिखाकलापाः । उत्पद्यते जगति सीममती धरित्रीं ___ यः पालयेत्क्षितिपतिर्जितशत्रुपक्षः ॥ ३८॥ केन्द्रे विलग्ननाथः सुहृद्भिरभिवीक्षितो विहगैः । लग्नस्थिते च सौम्ये भूपतिरिह जायते पुरुषः ॥ ३९ ॥ सुरपतिगुरुः सेन्दुर्लग्ने वृषे समवस्थितो ___यदि बलयुतो लग्नेशश्च त्रिकोणगृहं गतः । रविशनिकुजैर्वीर्योपेतैर्न युक्तनिरीक्षितो ___भवति स नृपः की| युक्तो हताखिलकण्टकः॥४०॥ न नीचगृहसंस्थिता न च रिपोर्गृहं संगताः
स्वराशिमथवांशकानुदयगोचमशं यदि । कलाभिरतिभूषिते कुमुदषण्डबोधप्रदे
सुहृद्भिरभिवीक्षिताः क्षितिपतिं विदध्युग्रहाः ॥४१॥ यो यः पूर्ण शिशिरकिरणं प्राप्तवर्गोत्तमांशं
सुस्पष्टार्चिगगनगमनः पश्यति स्वोच्चसंस्थम् । स क्षोणीशं जनयति दशां प्राप्य सौम्यः स्वकीयां
ख्यातं लोके यदि बलयुताः कण्टकस्था न पापाः ॥४२॥ जन्मोदयभवनपती बलसहितौ केन्द्रभेऽथ हिबुके वा । इन्दुर्जलगृहगश्चेत्रिकोणगो वा महीपालः ॥४३॥ स्वगृहे मित्रभागेषु स्वांशे वा मित्रराशिषु । कुर्वन्ति च नरं सूतौ सार्वभौमं नराधिपम् ॥४४॥ १ श्विरमवति गामेक. २ वर्ग:. ३ विहगनाथैः. ४ नियतम्. ५ संस्थः.
Aho! Shrutgyanam