SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३८ सारावली । उदकचरनवांशकेघु पष्ठः कमलरिपुः सकलाभिराममूर्तिः । उदयति विहगे शुभे स्वलग्ने भवति नृपो यदि केन्द्रगान पापाः२७ आपूर्णमण्डलकलाकलितं शशाकं पश्यन्ति शुक्रसुरपूजितसोमपुत्राः । लग्नाधिपोऽतिबलवान्पृथिवीश्वरः स्यात् वर्गोत्तमश्च नवमः खलु चेद्विलग्ने ॥ २८ ॥ वर्गोत्तमे त्रिप्रभृतिग्रहेन्द्राः केन्द्रस्थिता नो शुभसंयुताश्च । नो रूक्षधूमो न विवर्णदेहाः कुर्वन्ति राज्ञः प्रसवं प्रसन्नाः ॥२९॥ एक एव खगः स्खोचे वर्गोत्तमगतो यदि । बलवान्मित्रसंदृष्टः करोति पृथिवीपतिम् ॥ ३० ॥ शीर्पोदयःषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः । सौम्येक्षितोऽन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ३१ उपचयगृहसंस्थो जन्मपो यस्य चन्द्रात् शुभगृहमथवांशे केन्द्रयाताश्च सौम्याः । सकलबलवियुक्ता ये च पापाभिधानाः स भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२ ॥ अत्युच्चस्था रुचिरवपुषः सर्व एव ग्रहेन्द्रा मित्रैदृष्टा यदि रिपुदृशां गोचरं न प्रयाताः । कुर्युनूनं प्रसभमरिभिर्गर्जितैारणाय्यैः ।। __सेनाश्वीयैश्चलति चलितैयस्य भूः पार्थिवेन्द्रम् ॥३३॥ परमोचे स्थितश्चन्द्रो यदि शुक्रेण दृश्यते । कुर्यान्महीपतिं पूर्ण पापैरापोक्लिमोपगैः ॥ ३४ ॥ दृश्येते शुभदैः स्वकेन्द्रभवने मित्रैश्च पापैस्तथा युद्धे नो रिपुभिर्जितौ बलयुतौ जन्मोदयाधिपौ । भूपः स्यान्निजराशिनाथनवमे चन्द्रोदये चेद्यशो यस्येभस्रुतदानलुब्धमधुपैश्चातुर्दिशं गीयते ॥ ३५ ॥ उच्चराशिर्भवेद्धोरा यस्यासौ कुरुते नृपम् । १ सुखस्थः. २ ग्रहः. ३ सौम्येक्षितः पूर्णकलो. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy